SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः तत्रोभयपदव्यभिचारे यथा-नीलोत्पलम् , एकपदव्यभिचारे यथा-आपो द्रव्यं पृथ्वी द्रव्यं, स्वरूपज्ञापने यथा-परमाणुरप्रदेश इति । यद्येवं तर्हि अचिन्त्यशक्तिमित्येतावदेव मनोहरं, वीतरागादिग्रहणं पुनरपार्थकम् , न, लोके मण्यादीनामपि अचिन्त्यशक्त्युपेततयाऽभ्युपगमात्, “अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव" इतिप्रवादात्, अतस्तत्कल्पो भगवान् मा प्रापदिति तद्यवच्छेदार्थ वीतरागादिग्रहणम् । एतैश्च विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया निर्दिष्टा वेदितव्याः, तद्यथा-अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वागतिशयश्च । तत्र वीतरागमित्यनेनापायापगमातिशयमाह, सर्वज्ञमित्यनेन ज्ञानातिशयम्, त्रिदशपूजितमित्यनेन पूजातिशयम् , यथाज्ञातवस्तुवादिनमित्यनेन तु वागतिशयम् , अचिन्त्यशक्तिमित्यनेन पुनः खरूपावधारणमिति । हैनन्वेषामतिशयानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्त इति, अस्तीति ब्रूमः, किं तदिति चेत् ?, उच्यते-एवमेव भावः, तथाहि-नावीतरागः सर्वज्ञो भवति, न चासर्वज्ञस्य सतस्त्रिदशास्तथा पूजां कुर्वन्ति, नच तत्कृतपूजोपचाराभावे भगवान् धर्ममाचष्टे इति । एते चान्येषामपि देहसीगन्ध्यादीनामतिशयानामुपलक्षणम् , ततश्चतुस्विंशदतिशयसम्पत्समन्वितं भगवन्तं नत्वेत्युक्तं द्रष्टव्यम् । तथा चाह" तित्थयरं " तीर्थकरम् , नद्यपायापगमातिशयादिरहित इव देहसौगन्ध्याद्यतिशयरहितस्तीर्थकरो भवतीति । १ भावाईन्यनिबन्धनत्वादेषाम् । २ अतिशयचतुष्कस्य आजन्मभावित्वात् । Jain Education Inte! For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy