SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter यो वीतरागः सर्वज्ञस्त्रिदशपूजितश्च स यथाज्ञातवस्तुवाद्येवेति किमनेन विशेषणेन ?, न, अस्य कुवादिमतव्यवच्छेदार्थत्वात् । विद्यते हि परेषामेवंविधोऽप्यसदभ्युपगमो, यथा - ' वीतरागत्वादिविशेषणयुक्तोऽपि न यथाज्ञातवस्तुवादी', " वस्तु वाचामगोचर " इति वचनप्रामाण्यात् । यद्येवं तर्हि यथाज्ञातवस्तुवादिनमित्येतावदेव शोभनमलं वीतरागादिग्रहणेन, न, चतुर्द्दशपूर्वधरादीनामपि यथाज्ञातवस्तुवादित्वसंभवात्, ततस्तद्यवच्छेदार्थं वीतरागादिग्रहणम् । भूयोऽप्येतद्विशेषणायाह - " अचिंतसत्तिमिति " अचिन्त्या - चिन्तातिक्रान्ता प्राकृतजनानामध्यवसातुमप्यशक्यत्वात् शक्तिः - खप्रदेशैः सकललोकाकाशप्रदेशपूरणसामर्थ्यादिलक्षणा यस्यास्ति सोऽचिन्त्यशक्तिस्तम् । नन्विदं विशेषणमपार्थकं, यथोक्तवीतरागत्वादिखरूपोपेतस्याचिन्त्यशक्तित्वव्यभिचाराभावात् सति च व्यभिचारसंभवे विशेषणोपादानमर्थवत्तामश्रुते, तदुक्तम् — “संभवे व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति " | व्यभिचाराभावे तु तदुपादीयमानं न प्रयासमृते अन्यमर्थ पुष्णाति, यथा कृष्णो भ्रमरः शुक्ला बलाकेति, तस्मादचिन्त्यशक्तिमित्यतिरिच्यते, न अभिप्रायापरिज्ञानात् यस्मादिह यथोक्तवीतरागत्वादिखरूपोपेतोऽचिन्त्यशक्ति| रेव नान्यथेति नियमार्थत्वेन स्वरूपपरिज्ञानार्थमिदं विशेषणम्, ततोऽनवद्यमेव । न चैकान्ततो व्यभिचारसंभव एव विशेषणोपादानम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् । १ प्ररूपणामाश्रित्य श्रुतकेवलिनः केवलितुल्यत्वात् । For Private & Personal Use Only %%%%%% www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy