________________
धर्म
॥२॥
Jain Education Int
*%%%%%%
'
यद्येवं तर्हि सर्वज्ञमित्येतावदेवास्तामलं वीतरागग्रहणेन, न, अवीतरागाणामपि सकलशाचार्योपनिषद्वेदिनामुपचारेण लोके सर्वज्ञत्वव्यवहारदर्शनात्, आजीविकनयमतानुसारिभिश्च गोशालशिष्यैः सर्वज्ञस्तत्त्वतः खल्ववीतरागो|ऽप्यभ्युपगम्यते, 'अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् तत्त्वतो वीतरागस्य चेहागमनासंभवात्, ततस्तद्यवच्छेदार्थ वीतरागग्रहणम् । एतद्विशेषणायैवाह - “ तियसपूइयं विहिणा " त्रिदशपूजितं | विधिना, उपपातान्तर्मुहूर्त्तानन्तरं सदा तृतीया यौवनलक्षणा दशा-अवस्था येषां ते त्रिदशा - वैमानिकादयो देवाः, | पूरणार्थच वृत्तावन्तर्भूतो यथा तृतीयो भागविभाग इति, तैः पूजितः - समभ्यर्चितो यो, विधिना - तदेकतानतादिलक्षणेन तं नमिऊणेतिक्रियापदविशेषणं वा 'विधिना नत्वेति । ननु यो वीतरागः सर्वज्ञश्च सोऽवश्यं त्रिदशपूजित एवेति नार्थोऽनेन विशेषणेन, तदयुक्तम्, मुण्डकेवलिप्रभृतीनां केषाञ्चिदत्रिदशपूजितानामपि यथोक्तविशेषणविशिटत्वात् तव्यवच्छेदार्थ त्रिदशपूजितग्रहणम् । यद्येवं तर्हि त्रिदशपूजितमित्येतावदेवास्तु, कृतं वीतरागादिग्रहणेन, न, | अवीतरागाणामपि गणधरादीनां त्रिदशपूजितत्व श्रवणात् तदपनोदार्थं वीतरागादिग्रहणम् । पुनरप्येतद्विशेषणायैवाह - " जहनायवत्थुवादि यथाज्ञातवस्तुवादिनं भूतभवद्भाविभावस्वभावावभासिना केवलज्योतिषा यथा यथा - सदसद्रूपत्वादिना प्रकारेण ज्ञातं परिच्छिन्नं वस्तु तथा तथा वदितुं शीलो यथाज्ञातवस्तुवादी तम् । ननु १ हेतुत्वप्राधान्यविवक्षया तृतीया पुंस्त्वं च । २ अतिशयरहिताः सामान्यश्रमणा मुण्डाः ।
For Private & Personal Use Only
संग्रहणिः,
४ ॥२॥
www.jainelibrary.org