________________
रागादिदोषसद्भावे सत्यवश्यं कर्मसंबन्धसद्भावात् । अत्रैव विपक्षे बाधामाह-'संतेसुवि य'इत्यादि, सत्खपि चासंग्रहणिः विद्यमानेष्वपि च रागादिदोषेषु, अबन्धे-ज्ञानावरणीयादिकर्मबन्धाभावेऽभ्युपगम्यमाने 'किं' कस्मात् भवति बन्धः। शेषाणां जीवानां ?, नैवासौ तेषामपि भवितुमर्हतीति भावः। रागादिमत्त्वाविशेषाद्धि सर्वेषामप्यविशेषेण बन्धः स्यान्न वा कस्यचिदपीति ॥ १७८ ॥ पर आह
एसो चेव सहावो संतेसुऽवि तस्स जेण णो बंधो ।
होयन्नेसिं ण य इह पज्जणुओगो सहावस्त ॥ १७९ ॥ एष एव तस्य जगत्कर्तुः स्वभावो येन सत्स्वपि रागादिषु तस्य बन्धो न भवति,अन्येषां पुनः शेषजीवानामित्थंभूतो येनासौ भवत्येव । न च इह खभावस्य पर्यनुयोगोऽस्ति, लोके तथाऽदर्शनात् ॥१७९॥ एतदेव दृष्टान्तेन भावयति
अविसिटे सब्भावे जलेण संजुअती जहा वत्थं ।
णेवं नलिणीपत्तं सहावतो एवमेयंपि ॥ १८ ॥ अविशिष्टे-परस्परं विशेपरहिते सद्भाये-खरूपे सत्यपि यथा अन्तःप्रवेशरूपतया जलेन संयुज्यते वस्त्रं, न एव
॥९
॥
Jain Education
For Private & Personel Use Only
W
ww.jainelibrary.org