________________
| तस्य रागादिमत्त्वाभ्युपगमेन जगत्कारित्वव्यापकस्याशेषवस्तुखरूपपरिज्ञानस्याभावो भवति तथा दर्शयति
रागादिदोसवसगो बंधति कम्मं किलिट्ठमच्चत्थं ।
तप्पच्चयं तयं पुण वेदेंतो सेसतुल्लो उ ॥ १७७ ॥ 'रागादिदोषवशगो' रागद्वेषादिदोषायत्तो यस्मात् बध्नाति 'कर्म' ज्ञानावरणीयादिकं 'तत्प्रत्ययं रागादिदोषप्रसयम्, एतदेव विशेषयति-अत्यर्थम्-अतिशयेन क्लिष्टं-दारुणविपाकोदयम् । बवा च पुनस्तकत्-कर्म ज्ञानावरणीयादि वेदयमानः-अनुभवन् शेषैः-अस्मादृशैस्तुल्य एव-समान एव भवति, तुरेवकारार्थः, करणग्रामाधीनविज्ञानोदयतया समस्तवस्तुविस्तारपरिज्ञानविकलो भवतीति भावः। तथा च सति तस्य जगत्कारित्वाभाव इति ॥१७७॥ अत्र परस्य मतमाशङ्कमान आह
__ अह णो बंधइ एवं ण संति रागादतोत्ति से पत्तं ।
संतेसुवि य अबंधे किं बंधो होति सेसाणं ? ॥ १७८ ॥ __ अथोच्येत-रागादिदोषवशगोऽपि नैवासौ जगद्धाता कर्म बनाति, तत्कथं शेषतुल्यः स्यादित्यत आह-‘एवं न संति रागादयोत्ति से पत्तंति' यद्येवमभ्युपगम्यते तत एवं 'से' तस्य जगद्धातुः रागादयो दोषा न सन्त्येवेति प्राप्तम् ।
SALAAAAAAAAAA
Jain Education in
For Private & Personel Use Only
Www.jainelibrary.org