________________
धर्म
॥ ८९ ॥
Jain Education In
वलमेव रागादिमत्त्वं जगद्धातृत्वप्रतिषेधायालं, किंतु कृत्रिमत्वसहितं यथाऽस्मादृशस्य, अकृत्रिमश्च विवक्षितः पुरुष| स्तेनास्य रागादिमत्त्वेऽपि जगद्धातृत्वप्रतिषेधोऽयुक्तः, साध्यसाधनयोः संबन्धस्योपाध्यपेक्षित्वात् तस्य चेहाभावादिति । आचार्य आह-तुल्य एव समान एव 'इह' विचारप्रक्रमे, रागादिभावे सति नैतदपि अकृत्रिमत्वं विशेषणं | जगत्कर्तृत्वाभावप्रसङ्गरूपदोषव्यवच्छेदकं युक्तम्, कृत्रिमत्वोपाधिरहितस्यापि केवलस्य रागादिमत्त्वस्य जगत्कर्तृत्वप्रतिषेधकरणसामर्थ्यसंभवात्, यथोक्तं प्राक् ॥ १७५ ॥ एतदृष्टान्तेन समर्थयते
हि तुम्मि दियत्ते वेदज्झयणगुणसंपउत्ताणं ॥ साहुतं दामि विसेसणं होति ॥ १७६ ॥
न हि वेदाध्ययन गुणसंप्रयुक्तयोर्द्विजयोस्तुल्ये - समाने द्विजत्वे - ब्राह्मणत्वे वेदाध्ययनादिके च गुणे सति ताभ्यां | दीयमाने दाने केशानामल्पत्वं बहुत्वं वा विशेषणं भवति, यथाऽस्याल्पे बहवो वा केशा इत्यस्मै दातव्यं नेतरस्मा - यिति, दानप्रवृत्तेः केशाल्पबहुत्वनिमित्तत्वाभावात् । एवमिहापि न जगत्कर्तृत्वम कृत्रिमत्वमात्रनिमित्तमाकाशादीनां तथानुपलम्भात्, किंतु कारणादिखरूपपरिज्ञानादिनिमित्तं तच्च कारणादिपरिज्ञानं रागादिमतोऽस्मादृशस्येवानुपपन्नम्, अतो न रागादिभावेऽविशिष्टे सति तस्याकृत्रिमत्वविशेषणं फलवदुपपद्यत इति ॥ १७६ ॥ इदानीं यथा
For Private & Personal Use Only
संग्रहणिः.
॥ ८९ ॥
ww.jainelibrary.org