________________
SORRCLEASECRET
च 'रागाइजुत्तो हवेज इयरो त्युपन्यस्तपक्षद्वयमध्ये प्रथमः पक्ष आशङ्कितो द्रष्टव्यः, चरमस्तु प्रागेवाशय निरस्तः। अत्रोत्तरमाह-'न सेसकत्ता तदन्नो वत्ति" यद्यसौ जगद्धाता हन्त रागादिमानिष्यते तर्हि न शेषाणां-जीवानां कर्ता प्राप्नोति, किंवदित्याह--'तदन्यवत्' तस्माजगद्धातुरन्यो योऽस्मादृशस्तदन्यस्तद्वत् । प्रयोगश्चात्र-यो रागादिमान् न ६ स जगद्धाता, यथाऽस्मादृशः, रागादिमांश्च विवक्षितः पुरुष इति, यो हि यस्य कर्ता स तत्कार्य, तस्य च कार्यस्योपादानसहकारिभेदभिन्नानि कारणान्यवश्यं वेदयिता भवति, यथा घटस्य कर्ता कुम्भकारः, ततश्च बुद्धिपूर्वक कार्यकारित्वं कार्यकारणपरिज्ञानेन व्याप्तं, यश्च रागादिमान् सोऽवश्यमधिष्ठितौदारिकादिशरीरः करणग्रामावीनविज्ञानोदयश्च भवति, न तु सकलजगद्वेदयिता, यथाऽस्मादृशः, विवक्षितः पुरुषो रागादिमानिष्यते ततो व्यापकविरुद्धोपलब्ध्या तस्य जगत्कर्तृत्वप्रतिषेधः क्रियते, अबुद्धिपूर्वककार्यकारित्वाभ्युपगमे च खभाव एव तस्य तथाभूतो जगन्निर्मापणे वक्तव्यः, स च प्रागेवापास्त इति ॥ १७४ ॥ पर आह
जमकित्तिमो ण अन्नो तेण ण कत्तत्ति तुल्ल एवेह ।
रागादिदोसभावे णेयंपि विसेसणं जुत्तं ॥ १७५ ॥ यत्-यस्मादन्यः-अस्मादृशोऽकृत्रिमो न भवति,तेन कारणेन न शेषाणां जीवानां कर्ता, इदमुक्तं भवति-न के
Jain Education in
For Private & Personel Use Only
Huaw.jainelibrary.org