________________
धर्म
॥ ८८ ॥
Jain Education In
शब्दो दूषणान्तराभ्युचये, स जगद्धाता वीतरागत्वात् मध्यस्थः सन् किमर्थमीश्वरादिभेदेन, आदिशब्दात् दरिद्रादिभेदपरिग्रहः, चित्रान् सत्त्वान् करोति ?, तस्य हि मध्यस्थत्वेन सदाभ्युदययोगिन एव सत्त्वान् कर्तुमुचितमिति भावः । इह प्राकू 'रहियस्स सेसकरणे पयोयणं किंति वत्तव' मिति सामान्येन सत्त्वनिष्पादनविषयः प्रश्नः कृतः, इदानीं पुनरीश्वरादिभेदेन सत्त्ववैचित्र्यनिष्पादनविषय इति न पुनरुक्तता । 'सियेत्यादि' स्यादेतत्, क्रीडार्थम् ईश्वरादिभेदेन विचित्रान् करोति, ततो न कश्चिद्दोष इति, आचार्य आह - 'असंगया सावि' सापि - क्रीडा तस्य - मध्यस्थस्य जगद्धातुरसंगता - अयुक्ता ॥ १७३ ॥ कथमित्याह -
जं रागादिविजुतो सानु सरागस्स दीसती सोऽवि । रागादिजुत्तोत्ति मती ण सेसकत्ता तदन्नोव ॥ १७४ ॥
यत्-यस्माज्जगद्धाता रागादिवियुक्त इष्यते, तदुक्तम् - " ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, सहसिद्धं चतुष्टयम् ॥ १ ॥” इति सा पुनः क्रीडा सरागस्य-रागादिमतो दृश्यते, विचित्रक्रीडनोपायसाध्यक्रियादर्शनाभिष्वङ्गात्मकतया तस्या रागस्वभावत्वात् ततो न मध्यस्थस्य सतः सा क्रीडा संगतेति । अथ स्यादियं | मतिः परस्य - सोऽपि - जगद्धाता रागादियुतो - रागादिदोषसंकुल इष्यते, तत्कथमस्य क्रीडा न संगता स्यादिति ?, एतेन
For Private & Personal Use Only
संग्रहणिः०
॥ ८८ ॥
www.jainelibrary.org