________________
तेसिं चेव सहावो जं तस्सत्तामवेक्ख होन्ति तया ।
जायाण पुणोऽभवणा जुत्तोऽजायाण तु विरुद्धो॥ १७२ ॥ ननु च कस्तस्य जगद्धातुरपराधो ? यत्-यस्मात्तेषामेवोत्पद्यमानानां जीवानामेप स्वभावो येन तदा अनन्ताद्धायां प्रतीतायां सत्यां तत्सत्तां-तस्य जगत्स्रष्टुः सत्तामपेक्ष्य ते भवन्ति-उत्पद्यन्ते, नान्यदा, ततो न तस्य सदाकरणप्रस-|
ङ्गः, क्रियमाणानां तथाखभावाभावात् , नाप्यनित्यता सर्वदैकखभावत्वादिति । अत्रोत्तरमाह-'जायाणेत्यादि' इह दातेषां जीवानामुत्पाद्यमानामेष खभावः कल्प्यते किमुत्पन्नानामनुत्पन्नानां वेति विकल्पद्वयं ?, गत्यन्तराभावात् ,
तत्र यद्याद्यः पक्षस्तदयुक्तम् , जातानामुत्पन्नानां सतां पुनरभवनात्, न ह्युत्पन्नस्य पुनरुत्पत्तिर्भवति येन स स्वभावः परिकल्प्यमानः फलवान् स्यात् , अनवस्थाप्रसङ्गात् , अथानुत्पन्नानामिति पक्षस्तदप्ययुक्तम् , विरुद्धत्वात् , अनुत्पना ह्येकान्तेन तुच्छरूपाः, तत्कथमेषामयं खभावः परिकल्प्यते ?, तस्य वस्तुधर्मत्वात् , तथा चाह-अजातानां तु विरुद्ध इति ॥ १७२ ॥ किंच
मज्झत्थो य किमत्थं चित्ते इस्सरियमादिभेदेणं ? । सत्ते कुणतित्ति सिया कीडत्थमसंगया सावि॥ १७३॥
CONC3%ALSOURCORROCODChe
Jain Education
For Private
Personel Use Only
Tww.jainelibrary.org