________________
धर्म
॥ ८७ ॥
Jain Education In
यस्मात्तस्य - जगत्स्रष्टुरपरिमिताद्धायामपि -अनियताद्धायामपि सत्यां स्वभावभेदे - पूर्व जगदकारकत्वं पश्चात्तत्कारकत्वमित्येवंरूपे सत्यनित्यत्वं प्राप्नोति, “अतादवस्थ्यमनित्यता ब्रूम" इति वचनात् तथा च सति तस्य जगत्स्र| टुर्जगत्करणाभ्युद्यतस्यादिमत्त्वमेव प्रसक्तमिति । अथ मा भूदेष दोष इति स्वभावभेदो नेष्यते, तत आह - 'पु वेत्यादि' जगत्करणकाले यः खभावो यश्च जगदकरणकाले तयोरभेदे सति उभय्यामप्यवस्थायामेकस्वभावत्वे सती|तियावत्, पूर्वमिव-खसत्ताभवनकाल इव पश्चादपि - परिमिताद्धायामपि अकरणं प्राप्नोति, विशेषाभावात् ॥ १७० ॥
इतर आह
एसो चेव सहावो ऽणंतद्धाए कुणइऽतीयाए । एगसहावत्ते सइ करणं वाऽणिच्चया भेदे ॥ १७१ ॥
एष एव 'से' तस्य जगत्कर्तुः खभावो येनानन्ताद्धायामतीतायां सत्यां जगत्करोति, ततः कथं तस्यादिमत्त्वप्रसक्तिः ?, कथं वा प्रागिव पश्चादप्यकरणमिति । आचार्य आह- किमिह पुनः पुनः पुनर्निगदितेन, यदि तस्य सर्वदा एकस्वभावत्वमिष्यते ततस्तस्मिन्सति सर्वदा - सर्वकालं जगतः करणं प्राप्नोति, अथ स्वभावभेदस्तथा सत्यनित्यता, तस्याः स्वभावभेदलक्षणत्वात्, वाशब्दो भिन्नक्रमे, 'भेदे वाऽणिच्चये' त्येवं योजनीयः ॥ १७१ ॥ अत्र पर आह
For Private & Personal Use Only
संग्रहणिः
॥ ८७ ॥
o ww.jainelibrary.org