SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इत्याह-यत्-यस्मात् तत्सत्ता- तस्य जगत्स्रष्टुः सत्ता अनादिमती ततस्तन्निष्पाद्याः सत्त्वा अपि अनादय एव । 'णो चेत्ति' यदि पुनरेतद्दोषभयात्तस्य सत्ता अनादिमती नेप्यते तर्हि सोऽपि - जगत्स्रष्टा कादाचित्कत्वात्कृत्रिमः प्राप्नोति, | तथा च सति सोऽप्यन्येन कर्त्तव्य इति प्राप्तम्, अन्यथा कृत्रिमत्वानुपपत्तेः, सोऽपि चान्यः कर्त्ता पूर्वोक्तदोषप्रसभयात् कृतक इष्यमाणोऽन्येन कर्त्तव्यः, सोऽप्यन्येनेत्येवमनवस्थानुषङ्गः ॥ १६८ ॥ परस्याभिप्रायमाह - अह सत्तामेत्तेणेव कारओ किंतु ण समकालत्ति । पच्छावि परिमियद्धाए होइ तस्सादिमत्तं तु ॥ १६९ ॥ अथोsयेत-स जगद्धाता सत्तामात्रेणैव जगतः कारक इप्यते, परं किंतु न समकालं न - खसत्ताभवनकालम् अपि तु प्रभूतेन कालेनातीतेन, ततो न सत्त्वानामनादित्वापत्तिप्रसङ्ग इति । अत्राह - 'पच्छावी' त्यादि, पश्चादपि परिमिताद्धायां - नियताद्धायां तस्य जगत्स्रष्टुर्जगज्जन्तुकारित्वेऽभ्युपगम्यमाने सति 'भवति' प्राप्नोति आदित्वमेव, न | त्वनादित्वम् । तुशब्द एवकारार्थः ॥ १६९ ॥ एतदेव भावयति अपरिमिता व सहावभेदम्मि तस्स णिच्चत्तं । पुवं व अकरणं पच्छतोवि तेसिं अभेदम्मि ॥ १७० ॥ For Private & Personal Use Only %%% w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy