________________
Số
संग्रहणिः
-
अपरायत्तश्च कथं स जगत्स्रष्टा यः करोति क्लेशमात्मन एतावन्तं सकलजगजन्तुनिआपणलक्षणं १, नैवापरायत्त इत्यर्थः । कुत इत्याह-यस्मादन्योऽपि लोकेऽपरायत्तः स उच्यते यो नामात्मनो महाक्लेशकारी, तथा च जगत्त्रटाऽप्यात्मन एतावन्महाक्लेशकारी ततः कथमसावपरायत्त इति ॥ १६६ ॥ पराभिप्रायमाह
अह न किलेसोत्ति मती सत्तामेत्तेण कारओ जम्हा ।
तब्भवणतुल्लकाला सत्ता सवेऽवि सिद्धमिणं ॥ १६७ ॥ अथ स्यादियं मतिः परस्य, यथा-नैव तस्य जगत्त्रष्टुः क्लेशो, यस्मात्सत्तामात्रेणैव-खरूपसद्भावमात्रेणैव कारक इति । अत्रोत्तरमाह-'तब्भवणेत्यादि' यदि सत्तामात्रेणैव जगतः कारक इष्यते, हन्त तर्हि सिद्धमिदं-यदुत सर्वेऽपि सत्त्वास्तद्भवनतुल्यकाला इति, स हि सत्तामात्रेणैव कारकः, ततश्च यदैव तस्य सत्ता तदैव तन्निष्पाद्याः शेषा अपि सत्त्वाः ॥ १६७ ॥ ततः किमित्याह
एवं च अणादित्तं सव्वेसिं चेव हंदि सत्ताणं ।
तस्सत्ताणादिमती जंणो चे कित्तिमो सोऽवि ॥ १६८ ॥ एवं च सति तद्भवनतुल्यकालत्वे सति 'हंदीति' परामन्त्रणे सर्वेषामेव सत्त्वानामनादित्वं सिद्धम् । कुत
- - - - -
- -
Cho CS6
Jain Education
For Private & Personel Use Only
w w.jainelibrary.org