________________
Jain Education Int
| अथोच्येत - यद्यप्येष कृतकृत्यस्तथापि तस्य स्वभाव एवैष - येन तथाविधप्रयोजनमन्तरेणापि विचित्रान् सत्त्वान् करोति, ततो न कश्चिदिह पूर्वोक्तदोषप्रसङ्गः, एतच्च प्रागेव 'किं च सहावो य तस्स एसो उ' इत्यादिनाऽभिहितमिति ॥ १६४ ॥ अत आह—
एसो य सहावो से किमेत्थ माणं ? न सुंदरो य जतो । तकरणकलेसस्स तु महतो अफलस्स हेउति ॥ १६५ ॥
'एष च' जगन्निर्माणप्रवृत्तिहेतुः 'से' तस्य जगतः स्रष्टुः स्वभावोऽस्तीत्यत्र किं मानं प्रमाणं ?, नैव किंचित्प्रमाणमिति भावः, अतीन्द्रियत्वेनात्र प्रत्यक्षादेरनुपपत्तेः । अथवा कल्प्यतामेवंविधोऽपि तस्य स्वभावस्तथाप्येष न सुन्दरः चशब्दो दूषणान्तरसमुच्चये, कथं न सुन्दर इति ?, अत आह— यतो - यस्मान्महतोऽफलस्य तत्करणक्लेशस्य - जगज्जन्तुनिष्पादनप्रयासस्य हेतुः कारणमसौ स्वभाव इति, तस्मान्न सुन्दरः ॥ १६५ ॥ सांप्रतं यदवादि प्राक् 'अपरायत्तत्तणओत्ति' तत् दूषयितुमाह
अपरायत्तो य कहं ? जो कुणइ किलेसमेत्तियं जम्हा । torisa परायो किलेसकारी तु लोगम्मि ॥ १६६ ॥
For Private & Personal Use Only
-
www.jainelibrary.org