________________
धर्म
संग्रहणिः
। तेषां जीवानामुत्पत्त्या कस्तस्य-जगत्स्रष्टुरर्थः-प्रयोजनम् ?, एतदुक्तं भवति-यद्यपि जीवनिष्पादनक्रियाया जीव-16 निष्पत्तिः फलं तथापि तस्या अपि जीवनिष्पत्तेः प्रयोजनमभिधानीयं, न च वाच्यं-किमत्र फलान्तरेण ?, तनिष्पत्तिरेव केवला फलं भविष्यतीति । अत आह–'सेव उ न जुत्ता' सैव पुनर्निष्पत्तिः केवला फलत्वेन कल्प्यमाना न युक्ता, कुत इत्याह-'कुंभेत्यादि' यतो-यस्मात्कुम्भकारादीनाम् , आदिशब्दात्तन्तुवायादिपरिग्रहः, न घटाधुत्पत्तिरेव, अत्रादिशब्दात्पटादिपरिग्रहः, अर्थः-प्रयोजनं, किंत्वन्यदपि तद्विक्रयाल्लभ्यं धनादि, न हि कुम्भकारादयो व्यसनितया घटादीन् कर्तुमारभन्ते, किंतु लभ्यमानधनादिफलार्थितया, ततश्चेहापि जीवनिष्पादनक्रियायास्तन्निपत्त्यतिरिक्तं फलान्तरमन्वेषणीयं, तच नास्तीति यत्किंचिदेतत् ॥ १६३॥ अत्र परस्याशङ्कामपनेतुमाह
सिय कुंभारादीया अणिट्रियट्रिति णिट्रियट्रो य।
___ सो इय ण जुज्जई से उप्पर्ति काउ सत्ताणं ॥ १६४ ॥ स्थादेतत्-कुम्भकारादयोऽनिष्ठितार्थाः-अकृतकृत्यास्ततस्ते घटादिनिष्पादने तन्निष्पत्त्यतिरेकेण फलान्तरमप्यपेक्षन्ते, यस्तु जगतः स्रष्टा स निष्ठितार्थ इति नास्य फलान्तरापेक्षेति । अत्राह-'इय' इत्यादि, इतिरेवमथै, यद्यवमिष्यते तत एवं सति 'से' तस्य 'न युज्यते' न युक्तं भवति सत्त्वानामुत्पत्तिं कर्तुम् , एकान्तेन कृतकृत्यत्वात् ।।
FREMARCHECCCCCRACCOR
॥८५॥
Jain Education Intent
For Private & Personel Use Only
www.jainelibrary.org