________________
GANGACASSAMACHAR
गोण्या वृत्त्या इष्यते प्रमाणम् । ततो नातिप्रसङ्गो दोषाय । न ह्यभ्युपगमा एवं बाधायै भवन्ति ॥ १२७ ॥ उपचारश्च मुख्यापेक्ष इति, मुख्यं प्रमाणमुपदिशन्नाह
णिच्छयओ पुण एत्थं पडिवत्ती चेव होइ माणं तु ॥
तीए [य] दोण्हवि भावे ण तं पमाणंति वामोहो ॥ १२८ ॥ 'निश्चयतः' परमार्थेन मुख्यवृत्त्येतियावत् पुनःशब्दो वाक्यभेदे 'अत्र' प्रमाणविचारप्रक्रमे प्रतिपत्तिरेव अर्थग्रहणपरिणामलक्षणा भवति 'मानं' प्रमाणम्, प्रतिपद्यतेऽर्थोऽनयेति प्रतिपत्तिरितिकृत्वा । तुः पूरणे । 'इय पडिवत्तिनिमित्तं चे' त्यत्र तु प्रतिपत्तिशब्दो भावसाधनो विवक्षितः, तथाप्रकरणात्, तस्याश्च निमित्तमनुमानमर्थग्रहणपरिणामात्मकप्रतिपत्त्याश्रयत्वात् । कथं पुनरन्यत् प्रमाणं निश्चयतो न भवतीति चेत् ? उच्यते-इह तदेव प्रमाणं यत इयं प्रमेयाधिगतिरव्यवधानेन खतत्त्वं प्रतिलभते, प्रमीयतेऽनेनेति प्रमाणमिति करणे व्युत्पादनात् । करणं हि नाम कारकं तदुच्यते यक्रियाया अन्यं भेदकं, तचान्त्यं भेदकं यस्य कारकस्य भेदव्यापारः, सर्वेषामपि कादि
कारकाणां भेदकत्वेऽपि तदन्यतमेन भेदकान्तरेणापेक्षणीयेन व्यवधीयते किन्तु तद्भेदेनैव क्रिया भिद्यते, प्रमेया-- दाधिगतिक्रियायाश्चान्यं भेदकं ज्ञानस्य प्रमेयार्थग्रहणपरिणामलक्षणम्, तद्वशादेव बोधरूपतया अविशिष्टस्यापि
SACSCALCCACANCSCANCER-C
Jain Fधर्म.
For Private & Personel Use Only
Plww.jainelibrary.org