________________
धर्म
॥ ६७ ॥
Jain Education
ज्ञानस्य प्रतिकर्म विभागोपपत्तेः, यथा नीलस्येदमदः पीतस्येति । ततः स एवार्थग्रहणपरिणामः प्रमाणं न त्वन्यदिन्द्रियादिकम्, ततो ज्ञानस्य प्रतिकर्म्म व्यवस्थानुपपत्तेः । तथाहि – नेन्द्रियाणि प्रतिविषयं ज्ञानस्य भेदकानि, | अशेषनीलपीतादिविज्ञान साधारणत्वात्, तानि हि यथा पाटवादिगुणोपेतानि नीलविज्ञाने कारणत्वेन व्याप्रियन्ते तथा पीतविज्ञानेऽपीति, एतेनालोकोऽपि प्रमाणत्वेनाभ्युपगम्यमानः प्रतिक्षिप्तो द्रष्टव्यः, तस्याप्यशेषविज्ञानसाधारणतया विज्ञानस्य प्रतिविपयव्यवस्थाहेतुत्वायोगात्, अर्थस्तु यद्यपि खरूपेण भिन्नत्वाद्भेदकस्तथापि नैवासौ ज्ञानविशेषव्यवस्थानिमित्तं स हि अद्याप्यज्ञातः, अज्ञातेन च तेन विज्ञानमनुभूयमानं संसृष्टमित्येव न विज्ञातुं शक्यं, किं पुनस्तत्संसर्गितया विशिष्टं व्यवस्थापयितुमिति । एवमिन्द्रियार्थसन्निकर्षोऽपि प्रत्यर्थ भिद्यमानो ज्ञानस्य प्रतिविषयव्यवस्थाहेतुः परिकल्प्यमानो निराकृतो द्रष्टव्यः, अज्ञातत्वेन तस्यापि प्रतिविषयव्यवस्थाहेतुत्वायोगात्, इतश्च नासौ प्रमाणं, सर्वात्मना सन्निकर्षेऽपि कैश्चिदेव धम्मैः प्रतिपत्तेः, अर्थाधिगमनिमित्तं हि प्रमाणम् इष्यते, | सन्निकर्षश्चेदर्थाभिगमनिमित्तं ततः सर्वात्मना सन्निकृष्टे वस्तुनि सर्वैरेव खपरपर्यायैस्तद्विपया प्रतिपत्तिरुत्पद्येत, न चोत्पद्यते, तस्मान्नैवासौ प्रमाणम् । यदप्युच्यते मीमांसकै: - 'प्रथममालोचनाज्ञानं निर्विकल्पकं विकल्पविज्ञानस्य निमित्तं सत् प्रमाणम्, तेषां हि मतेनालोचनाज्ञानप्रभृतीनां प्राप्तिज्ञानपर्यन्तानां पूर्व पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति' । तदप्यसमीचीनम्, आलोचनाज्ञानस्य विवक्षितार्थग्रहण परिणामाभावे तस्य तदर्थालोचनत्वस्यैवासिद्धेः ।
For Private & Personal Use Only
संग्रहणिः
॥ ६७ ॥
. I www.jainelibrary.org