________________
Jain Education
यदि नीलस्यार्थस्यैतदालोचनं इति सिद्ध्येत् तदा तस्योत्तरकालभाविनं तद्विशेपविषयं विकल्पं प्रति प्रामाण्यं भवेत्, यावता विवक्षितार्थग्रहण परिणामाभावात् तस्य तदर्थालोचनमेवासिद्धमिति कुतस्तस्य प्रामाण्यमिति ? । तथा यदपि नैयायिकवैशेषिकैर्विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं फलमिति प्रतिपन्नम्, तदपि न विचारक्षमम्, विशेपणज्ञानस्य विशेषणलक्षणार्थग्रहणपरिणामाभावे विशेष्यज्ञानात्खार्थग्रहण परिणाम विकला द्विशेषव्यवस्थाया एवानुपपत्तेः । यदि हि विशेष्यविशेषणज्ञानयोर्विभागः कर्तुं शक्येत - इदं विशेष्यज्ञानं इदं तु विशेषणज्ञानमिति तदा स्यादपि विशेष्यज्ञानं प्रति विशेषणज्ञानं प्रमाणम्, यदा तु खखार्थग्रहणपरिणामाभावादुभयोरपि विभाग एव कर्तुं न शक्यते तदा कथं विशेष्यज्ञानं प्रति विशेषणज्ञानं प्रमाणं भवितुमर्हति ? । अपि च- क्रियायाः साधनस्य च विषयनानात्वं न युज्यते, तथादर्शनाभावात्, न हि धवादावुत्पतननिपतनव्यापारवति परशौ ततोऽन्यत्र छिदिक्रिया भवन्ती दृश्यते, तत इहाप्यन्यत्रैव विशेषणज्ञानं प्रमाणभूतं व्यापृतमन्यत्रैव च विशेष्यज्ञानं तत्फलभूतमिति व्याहतमेतत् तन्न विशेषणज्ञानं विशेष्याधिगतिक्रियां प्रति प्रमाणम् । अथ मा प्रापदयं दोष इति विशेषणविशेष्यज्ञानयोरभिन्नविषयत्वमभ्युपगम्यते, तर्हि द्वयकल्पना व्यर्था, विशेषणज्ञानेनैव तस्यार्थस्याधिगतत्वेन विशेष्यज्ञानस्याकिंचित्करत्वात् । एतच्चालोचनाज्ञानोत्तरविकल्पज्ञानयोरपि दूषणं वाच्यम्, तत्रापि ह्येकविषयत्वे सति उत्तरविकल्पज्ञानस्य वैय्यर्थ्य, भिन्नविषयत्वे क्रियासाधनविषयनानात्वविरोध इति । तथा यदप्युच्यते- ज्ञानस्य प्रमे
For Private & Personal Use Only
www.jainelibrary.org