________________
R
धर्म
॥६
॥
यसारूप्यं प्रमाणं, तदन्तरेण प्रमेयाधिगतिव्यवस्थानुपपत्तेः। तदुक्तम्-"अर्थेन घटयत्येनां, न हि मुक्त्वार्थरूपताम् ।
संग्रहणिः. तस्मात्प्रमेयाधिगतेः, प्रमाणं मेयरूपता ॥१॥" इति । तदप्ययुक्तम् , विज्ञानस्य प्रमेयसारूप्यायोगात्, अमूर्तस्य प्रतिबिम्बाभावात् , तथाहि-यदमूर्त न तत् प्रतिविम्बवत् , यथाकाशम् , अमूर्तं च विज्ञानमिति । प्रतिबिम्ब हि प्रतिबिम्बवतो दर्पणादेः प्रतिबिम्ब्यजपाकुसुमादिवस्तुगतसन्निवेशविशेषानुकारी रूपसन्निवेशविशेषः, स च मूर्तानामेव धम्मो “रूप-रस-गन्ध-स्पर्शवन्तः पुदला" इति वचनप्रामाण्यात्, ततः प्रतिबिम्बं खाश्रयमूर्तत्वेन व्याप्यते, विज्ञानं चामूत, मूर्तिलक्षणायोगात्, रूपादिसंस्थानविशेषो मूर्तिरिति हि मूर्तिलक्षणम् , ततो विज्ञानादाश्रयात् मूर्तत्वेन व्यावर्तमानेन खव्याप्यमपि प्रतिविम्बं व्यावर्त्यत इति व्यापकानुपलब्धिरियम् । एतच्च दर्पणादय एव प्रतिबिम्ब्यजपाकुसुमादिसन्निधानविशेषतस्तथा तथा प्रतिबिम्बवत्तया परिणमन्ते इति प्रदेशान्तराभिव्यक्तमाचार्यस्यैवाभिप्रायमुपजीव्योच्यते । यदा तु न प्रतिबिम्ब्यवस्तुप्रतिबद्धच्छायाणुसंक्रमातिरेकेणादर्शके अन्यप्रतिबिम्बसंभव इति सूत्राभिप्रायोऽनुश्रीयते, तदानीमव्याप्तिदोषो द्रष्टव्यः अनुमानज्ञानानां, तद्विषयस्य देशकालादिविप्रकृष्टतया तत्प्रतिवद्धच्छायाणुसंक्रमाभावेन सारूप्यायोगतः प्रामाण्यानुपपत्तेः । अमुं च सूत्राभिप्रायमाचार्यः खयमेव सर्वज्ञ-15 सिद्धौ विस्तरतरकेणाभिधास्यत इति नेह प्रतायते । अस्तु वा यथा कथंचन ज्ञानेऽपि अनुमानज्ञानस्यापि च सारूप्यं, तथापि न तत्प्रमाणं, विकल्पाभ्यामयोगात् । तथाहि-स सर्वात्मना वा सारूप्यं स्यादेकदेशेन वा?, न तावत्स
ECORRESSESE
Jain Education
For Private & Personel Use Only
Plwww.jainelibrary.org