SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ESSAMROSA त्मिना, तथा सति ज्ञानस्याज्ञानत्वप्रसङ्गात् , सर्वात्मना हि (सामान्य) सारूप्यं, सकलभेदापगमे चार्थ एव स्वादपरार्थव्यक्तिवद्, न ज्ञानम् । अथैकदेशेन तर्हि सर्व सर्वस्य परिच्छेदकं स्यात् , सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततःप्रमेयत्वादिना समानत्वसंभवात् । तथा चैतदेव भवदाचार्योऽपि धर्मकीर्तिर्विज्ञाननयप्रस्थानेऽभिधत्ते-"सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत् । साम्ये केनचिदंशेन, स्यात्सर्व सर्ववेदनम् ॥१॥"। अपि चसारूप्यप्रामाण्याभ्युपगमे अतिप्रसङ्गापत्तिः, तथाहि-प्रमितिक्रियानिमित्त प्रमाणं, सारूप्यं चेत् प्रमितिक्रियानि|मित्तमिष्यते ततः कदाचित् पूर्वविज्ञानस्यापि ग्रहणप्रसङ्गः, तस्यापि विषयेण सह तुल्ययोगक्षेमत्वात् । तथाहि-18 कस्यापि पुंसः कदाचित् प्रथमं तावदेकं पुरोवर्तिनीलखलक्षणग्रहणप्रवणं नीलप्रतिभासं विज्ञानमुदयते, तस्मादेव च समनन्तरप्रत्ययीभूतात् द्वितीयमपि नीलप्रतिभासं विज्ञानम् उपजायते, तत्र च यथोत्तरस्मिन् विज्ञाने विच्छिन्नो ग्राह्याकारो वाह्य इव प्रतिभासते तथा पूर्वस्मिन्नपि, ततो यथोत्तरविज्ञानस्य बाह्येन विषयेण सह सारूप्यमस्ति तथा पूर्वविज्ञानेनापि । अपि च-बाह्येन सह सारूप्यं नीलादित्वमात्रेण, पूर्वविज्ञानेन पुनः सर्वात्मना, ततश्च यथा सारूप्याबाह्यार्थस्याधिगतिस्तथा पूर्वविज्ञानस्यापि स्यात्, विशेषाभावात् । उक्तं च-"यथा नीलादिरूपत्वानीलाद्यनुभवो मतः । तथानुभवसारूप्यात्तस्याप्यनुभवो भवेत् ॥ १॥" न च भवति, तस्मान्नैव सारूप्यं प्रमाणं,8 किंतु यतो निमित्तविशेषात् सारूप्याविशेषेऽपि नियतविषया प्रतिपत्तिरुत्पद्यते स एव निमित्तविशेषोऽर्थग्रहणपरि ROGALAXMICO Jain Education For Private & Personel Use Only Plww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy