________________
धर्म
Pणामलक्षणः प्रमाणम् । यदि त्वर्थग्रहणपरिणाम एव सारूप्यमित्युच्यते, तदा न काचिदावयोर्विप्रतिपत्तिः, नाम्नि || संग्रहणिः.
विवादाभावात्। तदेवं निश्चयतःप्रमाणमभिधाय सांप्रतमुपचारनिवन्धनं प्रामाण्यमर्थज्ञानयोरविशेषेणोपपादयन्नाह'तीए य इत्यादि, 'तस्याश्च' अर्थग्रहणपरिणामलक्षणायाः प्रतिपचे योरप्यर्थज्ञानयोर्भावे सति भवन्त्या योऽसौ विषयो न स प्रमाणं, किंतु ज्ञानमेवेति व्यामोह एषः, तथाहि-यथा ज्ञानस्यार्थग्रहणपरिणामो ज्ञाने सत्येव भवति न तदभावे, तथा बाह्यार्थस्यापि भावे सति भवति न तदभावे, अन्यथा निर्विषयत्वेन तस्याप्रामाण्यप्रसङ्गात्, ततश्च यथा ज्ञानं तन्निबन्धनत्वादुपचारेण प्रमाणमिष्यते तथा विषयोऽपीप्यतामुपचारनिमित्ताविशेषात्, तथापि चेद्विषयस्य प्रामाण्योपचारप्रतिषेधस्तर्हि व्यामोह एषः, युक्तिवैकल्यादिति स्थितम् ॥ १२८ ॥ अधिकृत एवार्थे | परस्याशङ्काशेषमपनेतुकाम आह
तुल्लाणं वभिचारा तमप्पमाणंति किन्न पञ्चक्खं ? । तेसिं विसेसभावा इतरेसुवि किं ण सो अत्थि ? ॥ १२९ ॥
॥६९॥ | स्यादेतत् , क्वचित्संवाददर्शनादस्माभिरप्यनुमानस्य प्रामाण्यमभ्युपगन्तुमिष्यते, परं किं कुर्मो ?, यतः 'तुल्यानामपि' हेत्वाद्यवयवयुक्ततया प्रमाणाभिमतानुमानसदृशानामपि अनुमानानां व्यभिचारो दृश्यते, तस्मान्न तत्प्रमाणम
**XXXS********
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org