________________
गीकुर्मः । एतदुक्तं भवति-स श्यामस्तत्पुत्रत्वात् परिदृश्यमानपुत्रवदित्याद्यवयवोपेततया प्रमाणाभिमतानुमानतुल्यानामपि व्यभिचारो दृश्यते, ततस्तन्मात्रलक्षणकेऽनुमाने सर्वथाऽप्रामाण्याशङ्का न निवर्तते, यथा यस्मादेताशमेवान्यदनुमानं व्यभिचरत् दृष्टं तस्मान्नैतदपि प्रमाणाभिमतमनुमानं प्रमाणं युक्तम् , यस्तु संवादः स कुतश्चिन्निमितात्काकतालीय इति । अत्राचार्यः प्रतिबन्दिग्रहेणाह-'किन्न पचक्खमिति' यदि तत्तुल्यव्यभिचारदर्शनात्सर्वत्रानावासापत्त्या अनुमानमप्रमाणमुद्गीयते, ततः प्रत्यक्षमपि किं नाप्रमाणमुद्गीर्यते ?, तदपि हि मरुमरीचिकानिच-18 यविषये जलोल्लेखि प्रादुर्भवत् विसंवादि दृष्टमतः सर्वत्राप्यनाश्वासापत्त्या सर्वस्यापि प्रत्यक्षस्याप्रामाण्यप्रसङ्गो दुर्निवारः। पर आह-'तेसि विसेसभावा' तेषां प्रत्यक्षाणां विशेषभावात्-तत्प्रत्यक्षस्याप्रमाणभावान्न तस्य सर्वत्राप्यप्रामाण्यप्रसङ्गः। एतदुक्तं भवति-यदिन्द्रियसागुण्यादिसामग्रीविशेषसंपादितसत्ताकं तत् प्रमाणं, न च तस्य वापि विसंवादोऽस्ति । इतरस्तु (तु) तदाभासं, न च तद्बाधने प्रमाणाभिमतस्य प्रत्यक्षस्य कश्चिद्याघातो, भिन्नजातीयत्वादिति । आचार्य आह-"इतरेसुवि किन्न सो अथित्ति' इतरेष्वपि अनुमानेषु किं न 'स' प्रमाणतदाभासलक्षणो विशेषोऽस्ति ?, अस्त्येवेति भावः । तथाहि-न हेत्वाद्यवयवमात्रजनितत्वमनुमानलक्षणं, किंतु साध्यार्थान्यथानुपपनहेतुदर्शनतत्संबन्धस्मरणजनितत्वं, न चैतल्लक्षणोपेतमनुमानं वापि व्यभिचरति । यत्तु तत्पुत्रत्वादिहेत्वाद्यवयवमात्रजनितं तत्तदाभासं, तत्पुत्रत्वादिकस्य हेतोः साध्यार्थान्यथानुपपन्नत्वाभावात् , न च तद्वाधने प्रमाणाभिमत
Jain Education
For Private & Personel Use Only
www.jainelibrary.org