________________
संग्रमित
॥७०॥
स्यानुमानस्य कश्चिद्याघातो, भिन्नजातीयत्वात् । तस्मादनुमानमपि प्रत्यक्षवत् प्रमाणमेवेति स्थितम् ॥ १२९ ॥ अधि- कृत एवार्थे दूषणान्तरमप्यभिधित्सुराह
किं च पडिसेहगं तं अणुमाणं?, अह भवे अणुवलद्धी।
पञ्चक्खणुमाणेहिं भणियमिहं णणु पबंधेणं ॥ १३०॥ किमिति परप्रश्ने, चशब्दो दूषणान्तरसमुच्चये। येनानुमानेनात्मनः प्रतिषेधः कर्तुमिष्यते तदनुमानं प्रतिषेध किं स्यात् ?, नैव किंचिदित्यभिप्रायः । अपरस्याभिप्रायमाशङ्कते--'अथ भवेदनुपलब्धि'रिति अथ स्याद् इयं मतिः परस्य भवेदात्मप्रतिषेधकमनुमानं प्रमाणमनुपलब्धिः , अन्यस्य प्रतिषेधे व्यापारायोगात् । अत्राह-'पञ्चक्खेत्यादि 'इह' अस्यामनुपलब्धौ यद्वक्तव्यं तद्भणितं 'प्रबन्धेन' विस्तरेण प्रत्यक्षानुमानाभ्यामात्मप्रतिषेधकत्वेन विचार्यमाणाभ्यां, प्रत्यक्षप्रस्तावेऽनुमानप्रस्तावे चेत्यर्थः । तत्र प्रत्यक्षप्रस्तावे 'सिद्धो यऽविणाभावो तेण समं तीऍ किं भवतो' इत्यादिना, अनुमानप्रस्तावे च "नो तयं तुह पमाणमित्यादिनेति"। तस्मानानुमानमप्यात्मनः प्रतिषेधकम् ॥१३०॥ तदेवमात्मनोऽस्तित्वं चैतन्यस्य धर्मादित्वान्यथानुपपत्तितस्तत्प्रतिषेधकप्रत्यक्षानुमानप्रमाणाभावाच प्रसाध्य सांप्रतं आगमतस्तत्प्रसाधयन्नाह
आगमतो चिय सिद्धो जं उवओगादिलक्खणो जीवो।
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org