________________
धर्म
॥ ६६ ॥
Jain Education
|रिष्टा ते तर्हि प्रामाण्यप्रसङ्गः तथा चाह- 'इय इत्यादि' 'इतिः एवं खङ्गदृष्टान्तानुसारेण तथाविधशक्तिसद्भावाभ्युपगमेन यद्यनुमानमात्मप्रतिषेधप्रतिपत्तिनिमित्तमिष्यते, चशब्दो यद्यर्थः स च भावित एव ततः कथं तदनुमानमप्रमाणं भवति ?, नैव भवतीति भावः । यथावस्थितवस्तुविषयतया बलात्तस्य प्रामाण्योपपत्तेः । अत्रापरः पार्श्वस्थः प्रश्नयतिननु च कथमिदमुक्तं-यदि तदनुमानं प्रतिपत्तिनिमित्तं ततः कथमप्रमाणमिति, न हि प्रतिपत्तिनिमित्ततामात्रं प्रामाण्यलक्षणं, तस्य व्यभिचारित्वात्, तथाहि – रूपालोकचक्षुरादयोऽपि प्रतिपत्तिनिमित्तं भवन्ति, न च ते प्रमाण| मिति ॥ १२६ ॥ एतदेव दूषययितुमाशङ्कमान आह
ज पडिवत्तिणिमित्तं सर्व माणंति हंत विसओवि । पाव पमाणमेव इच्छिजइ सोवयारेणं ॥ १२७ ॥
यदि प्रतिपत्तिनिमित्तं सर्वं मानमिष्यते, अत्र सर्वशब्दो नियमार्थः, यदि प्रतिपत्तिनिमित्तं मानमेवेत्यर्थः, यथा सर्व कृतक मनित्यमित्यत्र कृतकमनित्यमेवेति इतिशब्दस्तस्मादर्थे, ततो हन्त विषयोऽपि उपलक्षणत्वादालोकादयोऽपि प्राप्नोति प्रमाणं, 'एवं' प्रतिपत्तिनिमित्ततामात्रप्रामाण्याभ्युपगमे, आचार्य आह-' इच्छिजइ सोवयारेणति' 'सोऽपि' विषयोऽपि आस्तां तावत् ज्ञानमित्यपिशब्दार्थः । उपलक्षणमेतत्, आलोकादयोऽपि उपचारेण
For Private & Personal Use Only
संग्रहणिः,
॥६६॥
www.jainelibrary.org