SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Education nek परखग्गेण विदिट्टो विणिवादो किं न लोगम्मि ? ॥ १२५ ॥ अथेदमाचक्षीथाः- परसिद्धेनानुमानेन परस्यात्मप्रतिपत्तौ क्रियमाणायां नास्ति कश्चिद्दोषः, परस्य तेनात्मप्रतिषेधप्रतिपत्त्युत्पत्तेः । अमुमेवार्थ प्रतिवस्तूपमया भावयति - 'परेत्यादि' किं लोके त्वया परखङ्गेनापि परकीयेनाप्यसिना परस्य विनिपातः क्रियमाणो न दृष्टः १, दृष्ट एवेति भावः सर्वेषामविगानेन तथाप्रसिद्धेः । इह विनिपाततुल्या परस्वात्मप्रतिषेधप्रतिपत्तिः खङ्गकल्पं चानुमानमिति । तदेतदयुक्तम् दृष्टान्तदार्शन्तिकयोर्वैपम्यात्, तथाहि - खङ्गस्य स्वपरविनिपात करणे शक्तिरप्रतिहता, ततस्तेन परकीयेनापि परस्य विनिपातो युज्यते त्वया पुनरनुमानमप्रमाणमिप्यते, ततस्तत्परस्यापि नात्मप्रतिषेधप्रतिपत्तिमाधातुमलम्, अप्रमाणस्य यथावस्थितार्थप्रतिपत्तिनिबन्धनत्वायोगात्, अन्यथा प्रमाणपर्येषणानर्थक्यप्रसङ्गात् ॥ १२५ ॥ एतदेवाह - विणिवायकरणसत्ती - सब्भावे जुज्जई तओ णियमा । इय पडिवत्तिनिमित्तं च होइ कहमप्पमाणं तं ?, ॥ १२६ ॥ विनिपातकरणशक्तिसद्भावे सति खगस्य सको विनिपातस्तेन परस्य क्रियमाणो नियमादवश्यंतया युज्यते, न पुनरनुमानादात्मप्रतिषेधप्रतिपत्तिः, तस्याप्रमाणत्वे तत्करणशक्त्तिविकलत्वात् । अथ तस्यात्मप्रतिषेधप्रतिपादनशक्ति For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy