________________
धर्म
॥ ६५ ॥
Jain Education Inter
परप्रतिपत्त्यर्थे परार्थानुमानप्रयोग इति युक्तस्तदपेक्षया प्रतिज्ञाप्रयोग इति कृतं प्रसङ्गेन प्रकृतमभिधीयते ॥ १२३ ॥ तत्र ननु मा भूत् प्रत्यक्षेण तन्निवृत्त्या वा आत्मप्रतिषेधः, अनुमानतो भविष्यतीति पराकूतमुद्घाटयन्नाह - अह अमाणेणं चिय पडिसेहो णो तयं तुह पमाणं । अप्पमाणम्मि य तम्मि का अत्था णाद (य) वादीनं ॥ १२४ ॥
अथ मन्येथाः - अनुमानेनैव चियशब्दः प्राकृते निपातोऽवधारणार्थः, प्रतिषेध आत्मन इति संबन्धः । अत्राह - 'नो इत्यादि' ननु तत् अनुमानं न 'तव' भवतः प्रमाणं “प्रत्यक्षमेवैकं प्रमाणमिति” वचनात् । अथोच्येत - यद्यपि न मे प्रमाणमनुमानं, तथापि तेनात्मनः प्रतिषेधः करिष्यते को दोष इत्याह- 'अप्पमाणम्मीत्यादि' अप्रमाणे च तस्मि ननुमाने का 'आस्था' न्यस्तभरता न्यायवादिनां युक्तिवादिनां ?, नैवेयं युक्तेत्यभिप्रायः, अप्रमाणस्यायथार्थत्वेन प्रतिषेधकारित्वायोगात् । ननु यदि वयमनुमानतो निश्चिनुमहे ततः स्यादेष उपालम्भो यथा - 'तस्मिन्नप्रमाणे का आस्था न्यायवादिनामिति', यावता परप्रतिपादनायात्मप्रतिषेधप्रयासः, परश्चाश्रयदेव स्वस्य प्रमाणत्वेनानुमानं, ततस्तेनात्मप्रतिषेधं कार्यते पर इति न कश्चिद्दोषः ॥ १२४ ॥ एतदेवाह -
अह परसिद्धेणं चिय परपडिवत्तीऍ णत्थि दोसोत्ति ।
For Private & Personal Use Only
संग्रहणिः
॥ ६५ ॥
www.jainelibrary.org