________________
Jain Education Inter
,
कस्यापि वस्तुनः समस्ति, सर्वस्यादीपमाव्योम च नित्यानित्यत्वस्वभावात् नच नित्यानित्यत्वे साध्यमानेऽनुमान| विरोधस्यावकाशोऽस्ति, यथावस्थितवस्तुविषयत्वाभावतस्तस्यानुमानाभासत्वात् । तथा यदपि प्रागवादि - किमनुमानस्य विषयः सामान्यं विशेष उभयं वेत्यादि, तत्र न सामान्यमग्निमात्रं साध्यं, विवादाभावात् नाप्येकान्तेन विशेष एव, तस्य व्यक्तयन्तराननुयायित्वेनान्वयाभावात्, किंतु विशेषवत् सामान्यम् अयोगव्यवच्छेदेन प्रदेशविशिष्टस्यैव | वह्नेः पुरुषस्य प्रवृत्त्यङ्गत्वात् । यदपि प्रागुक्तं, न देशविशिष्टोऽपि वह्निः साध्यो युक्तो, देशविशिष्टस्य वहेरन्वयाभावात्, न हि अस्मिन् पर्वते वह्निरस्ति धूमादित्यादौ विशिष्टेन साध्येन सह हेतोरन्योऽस्तीत्यादि, तदप्यसमीचीनम्, यत इह द्विविधो विषय:- प्रयोगकाले व्याप्तिकाले च । तत्र प्रयोगकाले देशविशिष्टो वह्निर्विषयः व्याप्तिकाले च केवलं वहिमात्रम् । प्रतिपाद्यं हि प्रतिपादयिता (त्रा) प्रेक्षावता धूमोऽग्निनान्तरीयको दर्शनीयः यथा यत्र धूमस्तत्रावश्यमनिरिति । स च धूमस्तथा व्याप्तिकाले वह्निमात्रेण व्याप्तः सिद्धः सन् यत्रैव पर्वतादौ स्वयं दृश्यते तत्रैवानिबुद्धिं जनयति, नो दध्यादौ, अन्यदेशस्थेन कारणेनान्यदेशस्थ कार्यस्याजननात् तेन प्रयोगकाले देशविशिष्टो वह्निर्विषयो निर्दिश्यते । यद्येवं तर्हि प्रयोगकाले न साध्यनिर्देशो युक्तः, सामर्थ्यनैवानन्तरोक्तेन तस्य गतार्थत्वात्, न, अनन्तरोक्तसामर्थ्यपरामर्शशून्य तथाविधपरव्यामोहनिवृत्त्यर्थत्वेन तस्यापि सफलत्वात्, अन्यथा हि तन्निर्देशाभावे व्याप्तिवचननान्तरं धर्मिणि पर्वतादौ धूमस्य सत्त्वे दर्शितेऽपि अनन्तरोक्तं सामर्थ्यमनुसर्तुमशक्तः सन् कश्चित् व्यामुह्येत् । अथ च
For Private & Personal Use Only
wjainelibrary.org