________________
C
धर्म-
सग्रहणिः
EMAILREAacaramirsOLOCRACOCOCIENCE-Co-OCOCACK
प्रामाण्यमङ्गीकुर्मः?, अनुमानविरोधाद्यनेकदोपसंपातसंभवात् , तथापि चेत्तस्य प्रामाण्याभ्युपगमः,तर्हि स श्यामस्तत्पुत्रत्वात् , इत्यादेरपि प्रामाण्यप्रसङ्गः ॥१२२॥ एतदेवाह
अह मणुमाणविरुद्धादिदोससब्भावतोऽपमाणं तं।
णो वत्थुबलपवत्ते ते दोसा दंसियमिदं तु ॥ १२३ ॥ अथेति पराशङ्काभिव्यक्तौ । अनुमानविरोधादिदोपसद्भावात् अप्रमाणं तदनुमानमिति मन्येथाः, तदयुक्तम् , यस्मान्न 'वस्तुबलप्रवृत्ते' साध्यार्थान्यथानुपपन्नलिङ्गनिश्चयवलप्रवृत्तेऽनुमाने 'ते'अनुमानविरोधादयो दोपाः प्रादुःपन्ति ।। तथाहि-धूमवत्त्वेनाग्निमति पर्वते साध्ये न खलु नानिमान पर्वतः पर्वतत्वात्तदन्यपर्वतवत् इत्यनुमानविरोधस्य, तथा निस्तलनिवृक्षप्रदेशाग्निना अग्निमान् पर्वतो धूमवत्त्वात् महानसवदितीष्टविघातकृत्त्वस्य, नात्रत्येनाग्निना अग्निमान् ।। पर्वतो धूमवत्त्वात् महानसवदिति विरुद्धाव्यभिचारित्वस्य वा दोपस्यावकाशोऽस्ति, तेषां प्रत्यक्षबाधितविषयतया अनु-15 मानाभासत्वतो विवक्षितानुमानवाधकत्वायोगात्, एतच प्रागेव दर्शितम् । तथा चाह-'दंसियमिदं तु त्ति' इदमनन्त-14
रोक्तम् तुशब्दः पुनरर्थे प्रागेव 'न विसेसविरुद्धो चिय अप्पडिबंधाओ वाहणाओ य' इत्यनेन ग्रन्थेन दर्शितमिति । ४ यदपि च प्रागभिहितम्-अनुमानविरोधो यथा घटस्य नित्यत्वे साध्ये, तद्युक्तमेव, यतो न खल्वेकान्तनित्यत्वं
CIRCREECHOCOCCEOCOCCACCORDCROSNOR
॥६४॥
Jain Eduent an
For Private & Personel Use Only
Jwww.jainelibrary.org