________________
Jain Education Int
नलक्षणं प्रमाणलक्षणज्ञाः, तच्चेहास्त्येवेति कथं न तत् प्रमाणं भवेत् ? । 'तभावम्मि य इत्यादि' 'तद्भावे च' अनुमानप्रमाणभावे च यदुक्तं प्राकू "अनुमानमप्रमाणमिति" तदयुक्तं द्रष्टव्यम्, स्ववाचैवेदानीं तस्य प्रामाण्याभ्युपगमात् । अ (आ) तश्चानुमानमप्रमाणमित्युक्तं, तदप्रामाण्ये प्रत्यक्षतदाभासयोरपि प्रामाण्याप्रामाण्यव्यवस्थानुपपत्तेः (त्तिः) । तथाहिस भौतिकपुरुषवादी काश्चित् प्रत्यक्षज्ञानव्यक्तीर्विवक्षितार्थक्रियासमर्थार्थप्रापकत्वेनाविसंवादिनीरन्याश्च तद्विपरीततया विसंवादिनीरुपलभ्य तलक्षणन्यात्या तादृशीनां प्रत्यक्षव्यक्तीनां प्रामाण्यमितरासां चाप्रामाण्यमुद्धोषयेत्, न च प्रत्यक्षमव्यवहितविद्यमानार्थग्रहणपर्यवसितसत्ताक तथा पूर्वापरपरामर्शशून्यं सत् सकलकालभाविनीनां प्रत्यक्षव्यक्तीनां प्रामाण्यनिबन्धनमविसंवादित्वसामान्यमव बोधयितुसीष्टे, तस्मादवश्यंतया परिदृष्टप्रत्यक्षज्ञानव्यक्त्यनुसारेण प्रामाण्यनिबन्धनस्याविसंवादित्वसामान्यस्य प्रत्यायकमनुमानं प्रमाणत्वेनाश्रयणीयम् । अपिच, परावबोधार्थ शास्त्रं प्रणयन् कथमनुमानस्य प्रामाण्यमेप प्रतिक्षिपति ?, तत्प्रतिक्षेपे शास्त्रकरणप्रवृत्ते वैफल्यप्रसङ्गात् । नहि प्रत्यक्षेण परचेतोवृत्तिः साक्षात्क्रियते, अगृहीते च परचैतन्ये तन्निवृत्त्या चासत्त्वेन शङ्किते परः शास्त्रार्थमवबुध्येतेति संशयेनापि न शास्त्रप्रणयने प्रवृत्तिरुपपद्येतेति । किंच, प्रत्यक्षस्य प्रामाण्यनिमित्तं गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणं, तच्च साध्यप्रतिबद्ध लिङ्गज्ञानसामर्थ्यनोदीयमानस्याप्यविशिष्टमिति कथं न तत् प्रमाणमङ्गीक्रियते ? । स्थादेतत् कथमनुमानस्य
For Private & Personal Use Only
www.jainelibrary.org