SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ धर्म ॥६॥ विशिष्टा काचनापि चेष्टा तदव्यभिचारिणी संगीर्यते, न या काचन, तेनायमदोष इति चेत्, ननु तस्याः केन प्रमा संग्रहणिः णेनाव्यभिचारः सिद्ध इति वाच्यम् ?, खसंवेदनप्रत्यक्षत एव तस्याः खशरीरे चैतन्येन सहाव्यभिचारग्रहणमिति चेत् ? हन्त तर्हि हतोऽसि अव्यभिचरितार्थान्तरदर्शनात्साध्यार्थप्रतिपत्तिमिच्छतोऽनुमानप्रामाण्यप्रसङ्गेन "प्रत्यक्ष-18 | मेवैकं प्रमाणं नान्यदिति” प्रतिज्ञाब्याहतिप्रसङ्गादिति यत्किंचिदेतत् , तन्न निवृत्तिमात्रात्तुच्छरूपादात्माभावनिश्चय | इति स्थितम्। किंच 'सिद्धो य इत्यादि' चशब्दो दूषणान्तरसमुचये, 'तस्याः' निवृत्तेः तेन आत्माभावेन सहाविनाभावः| किं भवतः सिद्धो? येन तत आत्माभावो निश्चीयते, नैव सिद्ध इति भावः । वस्तुनि सत्यपि प्रत्यक्षनिवृत्तिमात्रस्य सद्भावात् ॥१२॥ यदि न सिद्धस्ततः किमित्याह तदभावे णावगमो तब्भावे कह ण होति अणुमाणं? ॥ तब्भावम्मि अ (वे य अ) जुत्तं अणुमाणं अप्पमाणंति ॥ १२२ ॥ 'तदभावे' अविनाभावाभावे नावगमो निवृत्तेः सकाशात् आत्माभावस्य, संदिग्धविपक्षव्यतिरेकत्वात् । अथाप्युच्येत-सिद्ध एवाविनाभावः, तेन नोक्तदोपप्रसङ्ग इति । तत आह-तद्भावे' अविनाभावभावे कथं न भवत्यनुमान प्रमाणं ?, भवत्येव प्रमाणमितिभावः। अविनाभावसंबन्धस्मरणसापेक्षं हि लिङ्गात् लिङ्गिनि ज्ञानमनुमानमित्याहुरनुमा-11 Jain Education in For Private & Personel Use Only W w w.jainelibrary.org -
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy