SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ त्मिप्रतिषेधकं प्रमाणमिति पृष्टेन त्वया निवृत्तिरभिहिता, सा च न प्रत्यक्षं, तनिषेधात्मकत्वात् , किंतु प्रमाणान्तरं तत् स्यात् , ततश्च "प्रत्यक्षमेवैकं प्रमाणं नान्यदिति" संगरव्याघातः । सा न किंचित् तुच्छरूपत्वात्ततो न संगरव्याघात इति चेत्, कथं तर्हि तया आत्माभावनिश्चय इत्यनन्तरमेवोक्तम् । ननु स आत्माभावविनिश्चयस्तद्वाहकप्र माणाभाव एव, नान्यः, ततः क उक्तदोषावकाश इति चेत् , तदेतदसमीचीनम् , अभावो निश्चयश्चेति परस्पर-18 है विरुद्धत्वात्। नन्वभाव एव निश्चयो मा भूत् , ततः पुनः स भविष्यति, लोके तथा दर्शनात् , न च दृष्टेऽप्यनुपपन्नं नामेति चेत् कथं लोके तथा दर्शनमिति वाच्यम् , यन्न दृश्यते तन्नूनं नास्तीति व्यवहारदर्शनादितिचेत् ?, न, परचैतन्यादिना व्यभिचारात् । चेष्टादिदर्शनान्न तस्यादर्शन मिति चेत्, न, मूर्च्छितादौ तदर्शनासिद्धेः । तत्र तत्त्वतस्तन्नास्त्ये-18 वेति चेत्, न, क्वचिन्मूच्छांद्यपगमे तदुपलब्धः। तत् अन्यदेव कायादुत्पन्नमिति चेत्, न अतीन्द्रियत्वेनात्र प्रमाणाभा-14 वात् , प्रतिषिद्धश्चायमर्थः प्रागेव सुप्तोत्थितप्रवुद्धस्येत्यादौ प्रदेशे । तदेवेदं चैतन्यं मूछाद्यपगमेऽपीत्यत्रापि किं प्रमा-IN णमिति चेत् ? पूर्वानुभूतस्मरणदर्शन मिति ब्रूमः। नहि अननुभूते अन्यानुभूते वा स्मरणमुपपद्यते तथानुपलम्भात् , उपलभ्यते च लोके मूछाद्यपगमेऽपि पूर्वानुभूतस्मरणम् , अविगानेन सर्वेषां तथानुभवात् । नचेदं भ्रान्तमिति शक्यते ४ वक्तुम् , विवक्षितमर्थ स्मृत्वा प्रवृत्तस्य संवादोपलब्धेः । अन्यञ्च-कथमुक्तं प्राक् चेष्टादर्शनान्न तस्यादर्शनमिति, नहि चेष्टा चैतन्याव्यभिचारिणी, पवनादिना मृतकायेऽपि तस्या दर्शनात् । नचेयं न चेष्टा तथात्वेनाध्यवसायात्। अथ - Jain Education irail For Private & Personel Use Only C w w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy