________________
धर्म
॥१०६॥
Jain Education
वन्धवत्, अन्यथा द्वितीयादिष्वपि समयेषु मा भूत्, विशेषाभावात् तथा च सति द्वितीयसमये बद्धव्यकर्माभावादवन्धकत्वमायातमिति । ततः किमित्याह - 'सहावभेदाउ तोऽणिचोत्ति', यत एवं प्रथमसमये बन्धकत्वं द्वितीयसमये चाबन्धकत्वम्, 'तो' तस्मादयमात्मा स्वभावभेदात् बन्धकत्वाबन्धकत्व लक्षणस्वरूपभेदात् अनित्य एवेति स्थितम् ॥ २२२ ॥ मोक्षमधिकृत्य दूपणमाह -
हिंसादिविरतिपरिणती मोक्खस्सवि कारणं तु जा सिद्धा । सा वि वियप्पियवा एवं जहसंभवं सम्मं ॥ २२३ ॥
मोक्षस्यापि कारणं या हिंसादिषु विरतिपरिणतिः सिद्धा - प्रतीता मोक्षवादिनामविगानेन यथोक्तम् - "मुक्तिः कर्मक्षयादिष्टा, ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः । इति ॥ १॥ साप्येवं यथा हिंसादिपरिणतिस्तथा सम्यक् यथासंभवं विकल्पयितव्या, तथाहि न खल्वेकान्तनित्यपक्षे हिंसादिविरतिपरिणतिरुपपद्यते, तस्य सर्वकालमेकस्वभावत्वेन पूर्वस्वभावप्रच्युत्यभावात्, ततो न कदाचनापि कस्यापि मुक्तिर्भवेत्, तत्कारण| हिंसादिविरतिपरिणत्यभावात् । अथ मा भूदिष्टविरोध इति तत्कारणभूता हिंसादिविरतिपरिणतिरभ्युपगम्यते तर्हि | सर्वकालं तदेकखभावतया नित्यं मुक्तिरेव स्यात्, न संसारः । अथोच्येत - तस्येत्थंभूत एव स्वभावो येन कदाचिद्वन्धः
For Private & Personal Use Only
संग्रहणिः,
॥१०६॥
www.jainelibrary.org