________________
Jain Education Inte
हिंसादिपरिणतिप्रच्युत्यभावात् सर्वदा बन्ध एव प्राप्नोति, न मुक्तिः, तथा चाह - 'निचबंधो वा' । अथोच्येत - कदाचि द्वन्धः कदाचित्पुनरबन्धः, तस्य तथाविधैकस्वभावत्वात्, ततश्च का नो हानिरित्यत आह- 'बंधेत्यादि' 'बन्धाद्धाभेदे च' बन्धावन्धकालभेदे चाभ्युपगम्यमाने तस्यात्मनोऽनित्यता प्राप्नोति, तथाहि--यदैवास्यात्मनो बन्धकारणहिंसादिपरिणतिस्वभावो जरसेव यौवनमबन्धकारणेन हिंसादिविरतिपरिणति स्वभावेनापनीयते (तदैव बन्धाभावः), अन्यथा तत्परिणतिखभावभावेन पूर्वकालवत् बन्धाद्वन्ध एव प्रसज्येत, न निरनपगते दहनस्वभावे न दहतीति, तत्परिणतिखभावापगमे च नियतमनित्यतेति ॥ २२९ ॥ मा भूत् बन्धावन्धकालभेदस्तथापि तस्यानित्यतैवेति प्रतिपादयन्नाहतदभेदम्मि य एगम्मि चेव समयम्मि सवबंधातो ।
विइए अबंधगतं सहावभेदाउ तोऽणिच्चो ॥ २२२ ॥
तस्याः-बन्धाद्धाया अभेदेऽपि बन्धकालभेदाभावेऽपीत्यर्थः, एकस्मिन्नेव समये सर्व कर्मबन्धात् यत्कर्म्म बद्धव्यं तस्य सर्वस्यापि बन्धभावात् द्वितीयसमये बन्धनीयकर्म्माभावादबन्धकत्वम्, तथाहि — येनैव खभावेन प्रथमसमये कर्म्म वनाति तेनैव द्वितीयादिष्वपि समयेषु, न स्वभावान्तरेण, तथाऽभ्युपगमात्, ततश्च यावान् कश्चित् द्वितीयादिसमयभावी बन्धः स सर्वोऽपि प्रथमसमय एव स्यात्, तत्कारणस्य स्वभावस्य विद्यमानत्वात् प्रथमसमयभावि
For Private & Personal Use Only
3
www.jainelibrary.org