________________
कदाचिच्च मुक्तिः, न च वाच्यं कथमेवंविधस्तस्य खभावः कल्प्यत इति, स्वभावस्यापर्यनुयोगार्हत्वादिति । तदेतदु-1 न्मत्तप्रलपितं, यतो बन्धस्य कारणं या हिंसादिपरिणतिर्या च तद्विरतिपरिणतिर्मुक्तिकारणं तयोः परस्परविरोधितया यदैव हिंसादिविरतिपरिणतिरुपजायते तदैव यौवनिकायां शिशुत्वमिव इतरा हिंसादिपरिणतिरपगच्छति, अन्यथा तत्परिणतिलक्षणस्वभावभावेन पूर्वकाल इव विवक्षितकालेऽपि बन्ध एव केवलो भवेन्न मुक्तिरिति नियतमनित्य एवात्मेति कृतं प्रसङ्गेन । स्यादेतत्, हिंसादिपरिणतिस्तद्विरतिर्वा आत्मनोऽवस्थाभूता, अवस्थाश्चावस्थातुरेकान्तेन भिन्नाः, धर्मधर्मिणोरेकान्तेन भेदाभ्युपगमात् , ततोऽवस्थानां परस्परं भेदेऽपि अवस्थातुरविचलितखरूपत्वात् न काचित् टू नो बाधेति ॥ २२३॥ एतदेवाशङ्कमान आह
तत्तोऽह परिणतीओ भिन्ना एताओ होंति तो तस्स ।
पावइ उभयाभावो भावम्मि यातिप्पसंगो उ॥ २२४ ॥ अथ ततः-आत्मनः सकाशादेते परिणती भिन्ने एव भवत इत्यभ्युपगम्यते, अत्र 'भिन्ना एयाउत्ति' प्राकृतत्वात् द्वित्वेऽपि बहुवचनम् , यदाह पाणिनिः-"द्विवचन बहुवचनेनेति," एवमन्यत्रापि यथायोगं प्राकृतलक्षणमभ्यूह्यम् , अत्रोत्तरमाह-'तो तस्सेत्यादि', यद्येवमभ्युपगम्यते ततस्तस्य-आत्मनः 'उभयाभावो' वन्धमोक्षाभावःप्राप्नोति, भावे
MOCRACANCHOREOGOOCOMCOACCOCAL
Jain Education in
For Private & Personel Use Only
Kirwwjainelibrary.org