SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ धर्म॥१०७॥ Jain Education चोभयस्यात्मनोऽभ्युपगम्यमानेऽतिप्रसङ्ग एव स्यात् । तुशब्दोऽवधारणे । अतिप्रसङ्गश्चायम् - यथा देवदत्तस्य हिंसादिपरिणतितद्विरतिपरिणतिभ्यां बन्धमोक्षौ भवतस्तथा जिनदत्तस्यापि स्यातां भेदाविशेषादिति ॥ २२४ ॥ सांप्रतं सांख्यमतमपाचिकीर्षुरिदमाह अण्णस्स बंधमोक्खा ण अप्पणो बालवयणसरिसमिणं । तस्सव य णिच्च पक्खे एमेव ण संगता ते उ ॥ २२५ ॥ 'अण्णस्सेत्यादि,' सांख्यो ह्येवमाह - नैवात्मा पुण्यपापे बनाति, तस्याकर्तृकत्वात्, नाप्यसौ मुक्तो भवति, बन्धाभावात् नाप्यसौ क्वचिदपि संसरति, निष्क्रियत्वात्, केवलं प्रकृतिरेव सत्त्वादिसाम्यावस्थालक्षणा संसरति बध्यते मुच्येतेति (मुच्यते चेति ) । तदुक्तम् - " तस्मान्न बध्यते नापि संसरति कंश्चित् संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ” । तं प्रत्युच्यते - अन्यस्य - आत्मनो व्यतिरिक्तस्य प्रधानस्येति यावत्, बन्धमोक्षौ न त्वात्मन इति यदुच्यते तदिदं बालवचनसदृशम् - अज्ञभाषिततुल्यम् । तथाहि - यदि सततमप्रच्युतानुत्पन्नस्थिरैकस्वभाव एवायमात्मा प्रधानमेव च बन्धमोक्षादिका विचित्रा अवस्थाः प्रतिपद्यत इत्यभ्युपगम्यते, तर्हि भवापवर्गयोरात्मनोऽविशिष्टत्वात्किमित्ये १ कचित् इति खपुस्तके | For Private & Personal Use Only संग्रहणि 1180611 www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy