SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पोऽतिपरुषदःखभरभीषणभवभ्रमणभीरुतया निरतिशयानन्दमन्दिरमुक्तिपदाभिलाषुकतया च यमनियमादावनुष्ठाने प्रवर्तते, निष्फलत्वात् । स्यादेतत् , नैवात्मा मुक्त्यर्थमनुष्ठाने प्रवर्तते, किं तर्हि , देहेन्द्रियमनोविकारसहितं प्रधानमेव. ततो न कश्चिन्नो दोष इति, तदयुक्तम् , प्रधानस्याचेतनत्वेन घटादीनामिवालोचकत्यायोगात , मुक्त्यर्थ चेदमनष्ठानमालोचनापूर्वकं "क्रियासु सर्वोपरमो मोक्ष" इति नियमवता यथा(है) प्रवृत्तेः। अथ यद्यपि खयमचेतनं प्रधानं तथापि तन्मनोविकारावस्थमात्मा चिद्रूपः खसान्निध्यादुपाधिः स्फटिकमिव खनिर्भासं करोति, यदाह-"पुरुषोऽधि(वि)कृतात्मैव, खनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥१॥"इति । खनिर्भासितं च तत् आलोचनायां प्रवर्तते ततः कथं पुनः पूर्वोक्तदोषाभिष्वङ्गः?, तदुक्तम्-" स तस्येत्थमालोचनायां प्रयोजक इति", तदप्यसमीचीनम् , पुरुषस्यैकखभावत्वेनेत्थं सदा प्रयोजकत्वापत्तेः, तथा च सति सदैव तद्रूपत्वात् मुक्त्यभावप्रसङ्गः । एतेन यदुच्यते-“यथा चन्द्रः खभावेनाविकृतखभाव एव सन् चन्द्रोपलस्य पयःक्षरणे कदाचित्प्रयोजकः कदाचिन्न, तथा अयमप्यात्मा कदाचिदेव प्रयोजको भविष्यति न तु सदेति" तदपाकृतमवसेयम्, चन्द्रस्यापि नित्यानित्यात्मकतया सर्वदेवाविकृतखभावत्वानभ्युपगमात् , अन्यथा तस्यापि सदा प्रयोजकत्वापत्तेरिति यत्किंचिदेतत् । तस्मादात्मन एव बन्धमोक्षावभ्युपगन्तव्यो, तथा च सति तस्य तदन्यथानुपपत्त्या परिणामित्वमिति । अन्यस्याभ्युपगतयोर्वन्धमोक्षयोरेकान्तनित्यपक्षेऽनुपपत्तिमाह-तस्यापि च-आत्मनः सकाशादन्यस्य प्रधानस्य 'नित्यपक्षे एकान्तनित्यत्वा Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy