________________
धर्म
॥१०८॥
Jain Education
भ्युपगमे न संगतावेव 'तो' बन्धमोक्षौ । तुशब्द एवकारार्थो भिन्नक्रमश्च । तदपि प्रधानं युष्माभिरेकान्तनित्यमेकरूपमक्रियमिष्यते, ततः कथं तस्यापि बन्धमोक्षौ स्यातामिति ॥ २२५ ॥ अथ माभूदेष दोष इति तस्य परिणाममभिमन्यसे तत आह
परिणामम्मि य णणु तस्स चेव जुज्जति किं ततोऽपणेण । अपमाणेणं परिकप्पितेण अण्णाणपिसुणेणं ? ॥ २२६ ॥
परिणामे च प्रधानस्येष्यमाणे ननु तस्याप्यात्मनस्तथापरिणामाभ्युपगमे बन्धमोक्षौ युज्येते एव । एवशब्दो भिन्नक्रमः स च यथासंबन्धं योजित एव । ततः किमन्येनाप्रमाणेन तद्भाहकप्रमाणविकलेनाज्ञानपिशुनेन - विपर्याससूचकेन प्रधानेन परिकल्पितेनेति । अपिच, प्रधानस्य मोक्षाभ्युपगमे तस्य स्वरूपहा निरेवाभ्युपगता स्यात्, यदाह भवदाचार्य:- "प्रकृतिवियोगो मोक्ष इति" । ततः प्रकृतेः प्रकृतित्ववियोगे खरूपभ्रंशप्रसङ्गः तथा च कुतोऽस्य नित्यतेति । खसिद्धान्तप्रकोपश्चैवं भवत आपद्यते, सिद्धान्ते हि भवतः - " पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" ॥ इत्यादिना ग्रन्थेन पुरुषस्य मुक्तिरभिहिता, भवता चाधुना | प्रधानस्येष्यत इति ॥ उपसंहारमाह
For Private & Personal Use Only
संग्रहणिः.
॥१०८॥
www.jainelibrary.org