________________
धर्म. १९
Jain Education Inte
इय दिट्ठादिट्ठविरोह- भावतो सववत्थुविसओ उ ॥ एतणिच्च पक्खो मिच्छत्तं होइ तवो ॥ २२७ ॥
'इतिः' एवमुक्तप्रकारेण दृष्टस्य-सुखादियोगस्य घटपटसंवेदनादिभेदस्य चादृष्टस्य - बन्धमोक्षस्य विरोधभावादेकान्तनित्यपक्षः सर्ववस्तुविषयो मिध्यात्वं भवति ज्ञातव्यः । नित्यत्वपरीक्षा ॥ २२७ ॥ सांप्रतं यदुक्तम् 'अणिचपक्खे ण सो जुत्तोत्ति' तत्समर्थयमान आह
खणिगो वेगसहावोस कहं वेदेइ दोऽवि सुहदुक्खे ? | वेदभेदम्मिय सबलोगववहारवोच्छेदो ॥ २२८ ॥
क्षणिकोऽपि पदार्थः परैः परिकल्प्यमान एकस्वभाव एकान्तक्षणिकश्च परिकल्प्यते, ततश्च यद्ययमात्मा क्षणिकस्ततः कथं द्वे अपि सुखदुःखे वेदयते ?, तावत्कालमवस्थानाभावात् दृश्यते च क्रमेणोभयमपि वेदयमानः, तथानुभवात् । तथाऽन्य एव दुःखवेदकः क्षण आसीत् अन्य एव चाधुना सुखवेदकः क्षण उत्पद्यते, तत्कथमुच्यते-दृश्यते क्रमेणोभयमपि वेदयमान इति ?, अत्राह - "वेदगेत्यादि" सुखदुःखयोर्वेदकस्य भेदे - अन्य एव दुःखवेदकः क्षणोऽन्य एव च सुखवेदक इत्येवंरूपे इष्यमाणे सकललोकव्यवहारव्यवच्छेदः प्राप्नोति ॥ २२८ ॥ यत इत्थं लोकव्यवहारस्तथाहि
For Private & Personal Use Only
www.jainelibrary.org