________________
धर्मे
%%%%
%%*
बहवो विप्रतिपत्तारस्तत्कथं तेषां प्रामाण्यं भवेत् ?, यत्पुनः प्रमाणं परमार्थसद्वा, तत्सर्वेषामप्यविगानेन स्थितं यथा प्रत्यक्षं प्रमाणं तद्ब्राह्माणि च पृथिव्यादीनि भूतानि ॥ ३७ ॥ उपसंहरति
ता कहमागमपमुहा होंति पमाणा उ णज्जती कह य ? | एयं एत्थ पमाणं ण पमाणमिदं तु वत्तवं ॥ ३८ ॥
'ता' तस्मात्कथमागमादीनि प्रमाणानि भवितुमर्हन्ति ?, नैवार्हन्तीतियावत् । अपि च- कथमिदं ज्ञायते ' अत्र' जीवविचारे, एतत् "जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्ता' इत्यादिकं जीवास्तित्वप्रतिपादकं वचः प्रमाणम्, एतत्तु पुनः “ पृथिव्यप्तेजोवायुरिति तत्त्वानि ”, “ तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा" तथा " विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविश (नश्य) ति" इत्यादिकं जीवप्रतिषेधपरं वचनं न प्रमाणमिति । तस्मादत्र किञ्चिन्नियामकं वक्तव्यं तच्च नास्तीति यत्किञ्चिदेतत् ॥ ३८ ॥ अत्र पराभिप्रायमाशङ्कते -
जो पडिसेति सिया स एव जीवो ण जुत्तमेतंपि ।
१ जीवोऽनादिनिधनो ज्ञानावरणादिकर्मसंयुक्तः ।
For Private & Personal Use Only
www.jainelibrary.org