SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २४ ॥ Jain Education In अनुमानमप्रमाणम्, 'अनुमान विरुद्धादिदोषात् 'अनुमानविरुद्धत्वादिदोषसद्भावात्, तद्रहितं चानुमानं प्रमाणमिति लक्षणायोगः । तत्रानुमानविरोधो यथा घटस्य नित्यत्वे साध्ये घटस्य हि नित्यत्वं साध्यमानमनित्यत्वसाधकेन | परिणामित्वसाधकेन चानुमानेन वाध्यते, एवं सर्वत्रापि । आदिशब्दा दिष्टविघातकृत्त्वादिदोषपरिग्रहः, तदुक्तम्"अनुमानविरोधो वा यदिवेष्टविघातकृत् । विरुद्धो व्यभिचारी वा सर्वत्र सुलभोदयः ॥१॥” इति ॥ अपिच-अनुमानस्य विषयो भवेत् सामान्यं विशेष उभयं वेति विकल्पत्रयं, तत्र यदि सामान्यं तदा सिद्धसाधनम्, अग्निमात्रास्तित्वे कस्यचिद्विप्रतिपत्त्यभावात् न च तेन सिद्धेनापि किञ्चित्प्रयोजनं, देशादिविशिष्टस्यैव वह्नेः पुरुषस्य प्रवृत्तिं प्रति कारणत्वात् । अथ विशेषः साध्यो, यथा विवक्षितदेशादिविशिष्टो वह्निरस्तीति, तदप्ययुक्तं, विवक्षितदेशादिविशेषणसहितस्य बहेरन्वयाभावात्, न हि अस्मिन्पर्वते वह्निरस्ति धूमादित्यादौ विवक्षितदेशादिविशिष्टेन साध्येन सह हेतोरन्योऽस्ति, तथाविधेन वहयादिना सह धूमादेर्व्याध्यनिश्चयात् । उभयपक्षस्त्वनुपपन्न एव, तथाहि - तत्रापि सामान्यवान् विशेषः साध्यः, तथा च सति पूर्वोक्ताद्विशेषपक्षादस्य विशेषाभाव इति, तदुक्तम् - "विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ १ ॥” इति । तदेवं लक्षणाद्ययोगादनु|मानमप्रमाणमभिधाय साम्प्रतमागमादीनामप्रामाण्यमुद्भावयन्नाह - 'आगमे' त्यादि, आगमप्रमुखेषु पुनः प्रमाणेषु 'सर्वेऽपि ' प्रवादिनः प्रामाण्यं प्रति 'न संगता' नैकाभिप्रायाः, तथाहि — दृश्यन्त एवागमादीनां प्रामाण्यं प्रति For Private & Personal Use Only संग्रहणिः. ॥ २४ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy