________________
ACCOCALCERRORSCORE
प्रदेशत एवानुभवादिति प्रतिप्राणिप्रसिद्धविपाकानुभूतिभोगयोग्यकर्मफलहेतुविशेषज्ञापनार्थमित्यदोषः ॥ ३५॥ तत्र भौतिकपुरुषवादिनो जीवसत्तायामेव विप्रतिपन्नाः, ततस्तद्विप्रतिपत्तिनिराकरणार्थं तन्मतं तावदुपन्यस्यन्नाह
जीवो तु णत्थि केई पञ्चक्खं णोवलब्भती जम्हा ।
ण य पच्चक्खादपणं पमाणमस्थित्ति मण्णंति ॥ ३६ ॥ 'केचित्' भौतिकपुरुषवादिनो 'जीवः' खोपात्तशुभाशुभकर्मफलभोक्ता परलोकयायी आत्मा नास्तीति मन्यन्ते ।। कुत इत्याह-यस्मात्स जीवः प्रत्यक्षं नोपलभ्यते, प्रत्यक्षमिति क्रियाविशेषणं, यथा प्रत्यक्षो भवति तथा नोपलभ्यत इतियावत् । सन्निहिते ह्यर्थे यथावस्थितार्थग्रहणात्मकं ज्ञानं प्रत्यक्षं, न च घटादेरिवात्मनोऽपि तथाभूतंग ग्रहणमस्ति, तथा प्रतीत्यभावात् , मा भूत्प्रत्यक्षतोऽस्य प्रतीतिः, अनुमानादितो भविष्यतीत्यारेकानिराकरणार्थमाह'न चे'त्यादि, न च प्रत्यक्षादन्यत् प्रमाणमस्ति, तल्लक्षणाद्ययोगात्॥३६॥ यथा च तल्लक्षणाद्ययोगस्तथोपपादयन्नाह
अणुमाणमप्पमाणं अणुमाणविरुद्धमादिदोसातो। आगमपमुहेसुं पुण सव्वेऽवि ण संगया पायं ॥ ३७॥
Jain Education in
For Private & Personel Use Only
| www.jainelibrary.org