SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ - संग्रहणि, ॥२३॥ CREAC जीवति प्राणान् धारयतीति जीवः, द्विविधाश्च प्राणाः-द्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा इन्द्रियादयः, यदाह-"पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्ता" इति । भावप्राणा ज्ञानादीनि। उभयथा च प्राणसंबन्धः संसारिजीवानां, भावप्राणैरेव च सिद्धजीवानामिति । अयमेव च जीवो विशेष्यते-'अनादिनिधन' इति, न विद्यते आदिनिधने यस्य तदुत्पादककारणाभावात् सतः सर्वथा विनाशायोगाच सोऽनादिनिधनः । पुनरप्येष विशेष्यते-अमूर्त इति, रूपादिसंस्थानविशेपो मूर्तिस्तदभावादमूर्तः । परिणामी ति, परिणमनं परिणामः-कथञ्चियवस्थितस्यैव सतः पूर्वरूपत्यागेनोत्तररूपाऽऽस्कन्दः स यस्यास्तीति परिदणामी । पुनरपि कथंभूत इत्याह-'ज्ञायकः' ज्ञाता ज्ञानखभावो, न पुनरेकान्तेन ज्ञानादेरन्यो, यथाऽन्यैः परिकल्प्यत: इति । एनमेव पुनर्विशेषयति-'कर्ते'ति मिथ्यात्वाविरत्यादिवन्धहेतुयुक्ततया तत्तत्कर्मणां कर्ता-निवर्तकः । तथा मिथ्यात्वादिकृतस्य च निजकर्मफलस्य भोक्ता विति, मिथ्यात्वम्-अतत्त्वाभिनिवेशः, आदिशब्दादविरतिकपायादिग्रहणं, तैः कृतस्य, चः पूर्वोक्तविशेषणापेक्षया समुच्चयार्थः, 'निजकर्मफलस्य' खोपात्तकर्मफलस्य भोक्ता, तुरवधारणे, भोक्तैव, न त्वभोक्ता, इह कर्मणां मिथ्यात्वादिहेतु कत्वात् तत्फलमपि तैः कृतमित्युक्त, किमर्थमिति सचेत् , उच्यते, मिथ्यात्वादिकृतस्यैव कर्मणः फलं विपाकानुभूतितोऽपि भोक्तव्यं, न तु केवलयोगप्रत्ययस्य, तस्य ॥२३॥ O CKS Jain Education Intehanda For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy