SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | शब्दात्संवेगनिर्वेदानुकम्पास्तिक्यपरिग्रहः त एव लिङ्गानि गमकत्वात् तैर्गम्यः स भावधर्मो ज्ञातव्यः । स चानेकप्रकारः, सा चानेकप्रकारताऽस्य सम्यक्त्वभेदाभिधानादिना यथास्थानं निदर्शयिष्यते । अनेनैव च भावधर्मेणेहाधिकारः, अस्यैव धर्मशब्दान्वर्थयुक्तत्वात्, न नामादिरूपेण, तद्विकलत्वात् ॥ ३३ ॥ अमुमेव भावधर्ममिहा|धिकृतं चेतसि संस्थाप्याह जीवम्म कम्मजोगे य तस्स सइ एस जुज्जई जम्हा । तं चैव ततो पुत्रं वोच्छामि सुतानुसारेणं ॥ ३४ ॥ 'एप' प्रशमादिलिङ्गगम्यो जीवस्वभावलक्षणो भावधर्मो, यस्मात्सति जीवे तस्य जीवस्य कर्मयोगे च सति युज्यते, नान्यथा, तस्मात्तमेव जीवं तस्य कर्मयोगं च, पूर्व वक्ष्यामि पश्चाद्धर्मम् । कथं वक्ष्यामीत्यत आह- 'सुया| णुसारेणं' श्रुतस्य- आगमस्यानुसारेण, न स्वमनीषिकया ||३४|| तत्रानेकधा जीवविषया विप्रतिपत्तिरतस्तदपनोदार्थं यद्यत्खरूपविषया विप्रतिपत्तिस्तत्तत्स्वरूपविशिष्टं जीवं तावन्निर्दिदिक्षुराह - जीवो अणादिणिहणोऽमुत्तो परिणामी जाणओ कत्ता । मिच्छत्तादिकतरस य णियकम्मफलस्स भोत्ता उ ॥ ३५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy