________________
संग्रहणिः
धर्म- ॥२२॥
SCSC
समयो न समुच्छिन्नपूर्वापरकोटिरेक एव, अत्यन्तासत उत्पादायोगात् , सतश्च सर्वथा विनाशासंभवात् , अपि त्वन्वयी, तेन तस्यान्वयि रूपं ध्रौव्यं, पूर्वापरपर्यायनाशोत्पादौ तु व्ययोत्पादौ, ततश्च “उत्पादव्ययप्रौव्ययुक्तं सदिति" (तत्त्वा० अ०५ सू०२९) सल्लक्षणयोगात् सत् कालद्रव्यं, "गुणपर्यायवत् द्रव्य" (तत्त्वा० अ०५ सू० ३७) मिति द्रव्यलक्षणयोगाच द्रव्यम् । एप च कालो हमन्तादृतुविभागेन परिणममानः शीतोष्णादिपरिणामानामपेक्षाकारणं, बलाकाप्रसवस्येव गर्जितध्वनिरिति, तन्मतमाश्रित्याह-"कालस्स व जस्स जो लोए" इति, वाशब्दो मतान्तरसूचकः, यस्य कालस्य हेमन्तादेर्यो धर्मः-शीतकारित्वादिलक्षणो लोके प्रसिद्धः स कालस्य संबन्धी धर्मः कालधर्म इत्युच्यते ॥ ३२ ॥ अधुना भावधर्ममाह
जीवाण भावधम्मो कम्मोवसमेण जो खलु सहावो।
पसमादिलिंगगम्मो सोऽणेगविहो मुणेयवो ॥ ३३ ॥ जीवानां यः खलु 'कम्मोवसमणेति' कर्मणां-मिथ्यात्वमोहनीयादीनामुपशमेन, उपलक्षणात् अस्य क्षयोपशमेन क्षयेण च, स्वभावः 'प्रशमादिलिङ्गगम्यः' प्रशम-उपशमो यदशादपरस्मिन्नपराधकारिण्यपि सति न कुप्यति, आदि
Jain Education in
For Private
Personel Use Only
KIww.jainelibrary.org