SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Int पश्चइ ?, गोयमा ! जीवा चेव अजीवा चेवत्ति" । अन्ये त्वाचार्याः संगिरन्ते - अस्ति धर्मास्तिकायादिद्रव्यपञ्चकव्य|तिरिक्त मर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्ति षष्ठं कालद्रव्यं, यन्निबन्धना एते यः इत्यादयः प्रत्ययाः शब्दाश्च प्रादुष्पन्ति । | तथा च प्रयोगः - द्यःश्व इत्यादीनि वचनानि यथार्थानि आप्तेनाभिहितत्वात् यथा प्रमाणावगम्यः प्रमेयोऽर्थ इति । वचनस्य हि अयथार्थत्वं यथावस्थितवस्तुपरिज्ञानाभावनिमित्ततया क्रोधाद्यभिभूतत्वनिमित्ततया च व्याप्तं, यथार्थदर्शननिर्मूलक्रोधापगमादिगुणयुक्तश्च पुरुष इह आप्तोऽभिप्रेतः, ततस्तस्य वचनं यथार्थदर्शनादिगुणनिमित्ततया व्यासं तस्य चायथार्थत्वेऽभ्युपगम्यमाने स्वव्यापकाभावप्रसङ्गः तद्विरुद्धयथावस्थित परिज्ञानाभावा- | | दिनिमित्ततासद्भावप्रसङ्गात् विरुद्धयोश्चैकत्रासंभवात् तथा च सति तत् आप्तवचनमाप्तवचनमेव न स्यात्, वव्यापकाभावात्, तेनाssसवचनमयथार्थत्वलक्षणे विपक्षे यथार्थदर्शनादिगुणनिमित्ततालक्षणस्वव्यापक विरुद्धे यथावस्थित वस्तुपरिज्ञानाभावादिनिमित्ततोपलब्ध्या ततो व्यावर्त्तमानं यथार्थत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः, साक्षादपि चाभिहितमागमे षष्ठं कालद्रव्यं, यथा- " केइ णं भंते ! दवा पण्णत्ता ?, गोयमा ! छ दवा पण्णत्ता, तंजहाधम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए अद्धासमए" इति । एष चाद्धा१ कति खलु भदन्त ! द्रव्याणि प्रज्ञप्तानि १, गौतम ! षडू द्रव्याणि प्रशप्तानि तद्यथा-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय: पुद्गलास्तिकायो जीवास्तिकाय: अद्धासमयः । For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy