________________
धर्म॥ २१ ॥
Jain Education Inte
sसौ यन्निमित्तः स कालः, तस्य च कालस्य पूर्वत्वमपरत्वं च स्वयमेव प्रतिपत्तव्यम्, अन्यथाऽनवस्थानुषङ्गात्, ततः पूर्वकालयोगी पूर्वोऽपरकालयोगी चापरः, उक्तं च- "पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापि, | स्वरूपादेव नान्यतः ॥ १॥” तदयुक्तम्, एकान्तैकत्वाभ्युपगमे पूर्वादित्वासंभवात्, तथाहि - यद्येकान्तेनैकत्वं, कथं तस्य पूर्वत्वमपरत्वं चेति कल्पना, अथ सहचारिसंपर्कवशादेकस्यापि तथात्वकल्पना, तथाहि-- सहचारिणो रामादयः पूर्वे, अपरे चापरे, ततस्तत्संपर्कवशात्कालस्यापि पूर्वापरत्वव्यपदेशः भवन्ति च सहचारिणो व्यपदेशाः, यथा-मञ्चाः क्रोशन्तीति, तदेतदसमीचीनम्, इतरेतराश्रय दोपप्रसङ्गात्, तथाहि - सहचारिणां रामादीनां पूर्वादित्वं कालगतपूर्वादित्ययोगात्, यदि पुनः स्वत एव तेषां स्यात्तर्हि निरालम्बना कालकल्पना भवेत्, कालस्य च पूर्वादित्वं सहचारिगतपूर्वादित्वयोगात्, तत एकासिद्धाव परस्याप्यसिद्धिः, ततः परपरिकल्पितस्य कालस्य युक्त्याऽनुपपद्यमानत्वाद्वर्त्तनालक्षण एव कालः प्रतिपत्तव्यः, तत्राक्लेशेन पूर्वादित्वसंभवात् तथाहि - यस्यातीता वर्त्तना स पूर्व उच्यते, यस्य च भाविनी सोऽपरो, यस्य च तत्काले सती स वर्त्तमानः, तस्य च वर्त्तनालक्षणस्य कालस्य प्रति द्रव्यं भिन्नत्वादानन्यं, ततः स एव कालो धर्म इति विशेषणसमासः, पर्यायस्य च द्रव्यात्कथञ्चिदभि| न्नत्वात्, जीवादिवस्त्वपि तत्पर्यायविशिष्टं कदाचित्कालशब्देनोच्यते, तथा चागमः- “ किमयं भंते ! कालोत्ति १ किमयं भदन्त ! काल इति प्रोच्यते ?, गौतम ! जीवाश्चैवाजीवाश्चैवेति ।
For Private & Personal Use Only
संग्रहणिः.
॥ २१ ॥
www.jainelibrary.org