SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ द्रव्यमेव सत् आकाशं 'निवासमात्रपर्यायतः' निवासमात्रपर्यायमाश्रित्य क्षेत्रमिति 'मतं' संमतम् । तदुक्तम्-"खेत्तं खलु आगासमिति" । एतेन च आकाशस्य द्रव्यत्वात्तद्धर्मो द्रव्यधर्म एवान्तर्गत इति पृथग्नवासौ वक्तव्य इत्याशङ्का निरस्ता द्रष्टव्या, निवासमात्रपर्यायापेक्षया द्रव्यरूपस्याप्याकाशस्य क्षेत्रत्वेन पृथग्विवक्षितत्वात् , ततो यस्तस्य-क्षेत्र। स्यात्मखभावोऽमूर्त्तत्वादिकः स क्षेत्रधर्मः, धर्मः स्वभाव इत्यनयोरनन्तरत्वात् ॥ ३१ ॥ इदानीं कालधर्ममाह जं वत्तणादिरूवो कालो दवस्स चेव पज्जातो। सो चेव ततो धम्मो कालस्स व जस्स जो लोए ॥ ३२ ॥ 'यद्' यस्मात् 'द्रव्यस्यैव धर्मास्तिकायादेः 'पर्यायो' वर्तनादिरूपः, वर्तते पदार्थः खयमेव, तं च वर्तमानं या क्रिया तथापरिणत्याभिमुख्यखभाषा प्रयोजयति-वर्त्तख वर्त्तख मा निवर्त्तिष्ठा इति, सा वर्तना, आदिशब्दात्सायनादिप|रिणामपरिग्रहः, तत् रूपं-स्वभावो यस्य पर्यायस्य स इत्थम्भूतः काल इत्युच्यते । न हि जीवादिवस्तुव्यतिरिक्तः कश्चित् कालो नाम पदार्थविशेषः परपरिकल्पित एकः प्रत्यक्षेणोपलभ्यते, अथ मा भूत्प्रत्यक्षेणोपलम्भः, अनुमानतो भविष्यति, तथाहि-दृश्यते पूर्वापरव्यवहारः, स च न वस्तुखरूपमात्रनिमित्तो, वर्तमानेऽपि तत्प्रसङ्गात् , ततो१ क्षेत्रं खल्वाकाशमिति । Jain Education For Private & Personel Use Only | www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy