SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ॥२५॥ नत्थि परलोगगामी भणिमो जं पुण ण एसोऽवि ॥ ३९ ॥ स्यादेतत् , य एवं भूतव्यतिरिक्तं जीवं प्रतिषेधति स एव जीवो ज्ञातव्यः, तदतिरेकेणान्यस्य घटादेरिवाचेतनत्वेन प्रतिषेधकत्वायोगात् । अत्र विधानमाह-'न जुत्तमेयंपि' एतदपि-अनन्तरोक्तं न युक्तं-न समीचीनम् , कुत इत्याह-'यत्' यस्मात् य एव शुभाशुभानां कर्मणां निष्पादकस्तत्फलस्य च खर्गादिविषयसातादर्भोक्ता कश्चित् भूतचतुष्टयव्यतिरिक्तः परलोकगामी परैरिष्यते स एव नास्तीति ब्रूमः, न पुनरेपोऽपि-परलोकगामिजीवनिषेधको नास्तीति ॥ ३९॥ कोऽन्यः पुनरेतस्य प्रतिद्धेत्यत आह अत्थि पडिसेहगो इह चेतण्णविसिटकायमेत्तो तु। दाणादिफलाभावो सो(तो) अस्थि ण संगतमिदंपि ॥४॥ हा अस्ति प्रतिषेधकः 'इह' जीवविचारप्रक्रमे चैतन्यविशिष्टकायमात्र एव । तुरवधारणे । न तु भूतचतुष्टयव्यतिरिक्तः परिकल्पितो जीवः, तत्साधकप्रमाणाभावात् । पुनरप्यत्र पराभिप्रायमाशङ्कमान आह-दाणेत्यादि' अयं च प्रसज्यमानो हेतुः यदि जीवो नास्तीत्यभ्युपगम्यते तर्हि दानादीनामादिशब्दात् यमादीनां च फलाभावः प्राप्नोति । ॥२५॥ Jain Education Intern For Private & Personel Use Only Kalliw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy