________________
ततो-दानादीनां फलाभावप्रसङ्गात् अस्त्येव जीवः परलोकगामीति प्रतिपद्यतामिति, एतहषयति-'न संगतमिददमपी'ति ॥४०॥ तदेवासंगतत्वं भावयति
पुट्टो केणइ भोतो देवो णस्थिति केइ सो आह। किं धम्मिओ गतो ता वाडीऍ अणेण जं तुलं ॥४१॥
'भौतो' भस्मावगुण्ठितवपुः 'केनापि' प्रमाणमार्गविदा पृष्टो यथा-केचिदाचक्षते वादिनो-देवो नास्ति,तत्साधकप्रमाणाभावात् , तत्र किमुत्तरमिति । स एवं पृष्टः सन्नाह-यदि नास्ति देवस्तर्हि किमिति धाम्मिको देवार्चननिमित्त पुष्पानयनाय वाट्यांगत इति,ततश्च यथेदं वचनं प्रश्नाननुरूपत्वादसंगतं,तथा पूर्वोक्तमपि । 'यत्' यस्मात्तदपि तत्त्वतो ऽनेन भौतवचनेन तुल्यं, तत्साधकप्रमाणानभिधानात् । दानादिव्यवहारस्य च लोभमिथ्याज्ञानादितः कैश्चित् प्रवर्त्तितत्वादिति ॥४१॥ पुनरप्यन्यथा परमा(आ)शङ्कते
सिय जातीसरणातो थणाहिलासातो चेव अस्थित्ति । जातिस्सरणमसिद्धं भूयसहावातो इतरंपि ॥ ४२ ॥
Jain Education inte
For Private & Personel Use Only
य
ww.jainelibrary.org