________________
धर्म
॥ २६ ॥
Jain Education
स्यादेतत्-पूर्वभव संबद्धजातिस्मरणदर्शनादस्त्येव परलोकगाम्यात्मेति प्रतीयते, स्मरणं हि अनुभूतविषयं, अननुभूतविषयत्वेऽतिप्रसङ्गात्, अनुभूतश्चेत्तेन पूर्वो भवस्ततः सिद्धो नः परलोकगाम्यात्मेति । तथा स्तनाभिलापदर्शनादस्त्यात्मेति प्रतीयते, तथाहि - बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनानन्तरं स्तनादानाभिलाषो जायते, स चाभिलाषः पूर्व विवक्षितकारणदृष्टावेव दृष्टेषु कार्येषु तत्कार्यतया च ज्ञातेषु सत्सु पुनरपि कालान्तरे विवक्षित| कारणदर्शनानन्तरमुपजायमानेन स्मरणेन विवक्षितकार्यार्थितया विवक्षितकारणादानविषयो जन्यते, नान्येन, न चासौ | बालकस्य तदानीमसिद्ध इति वाच्यम्, अभिलाषादेव प्रतिनियतविवक्षितकारणोपादानाद्यर्थं प्रवृत्त्यादिव्यवहारो - पपत्तेः । यदुक्तम्- "तद्दृष्टायेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण, व्यवहारः प्रवर्त्तते ॥ १॥” इति । ततः प्रथमत एव बालकस्य स्तनादानाभिलाषदर्शनादनुमीयते - अस्ति देहातिरिक्तः परलोकयायी जीवो, येन पूर्वभवे क्षुदपनोदकारिस्तनौ दृष्ट्वा संप्रति स्मरणविषयीकृता इति । अत्र प्रतिविधातुमाह - 'जाईत्यादि' तत्र यदुक्तं जातिस्मरणादस्त्यात्मेति प्रतीयत इति, तदयुक्तम्, जातिस्मरणस्यासिद्धत्वात्, न हि लोके जातिस्मरणं कस्याप्युपलभ्यत इति । 'भूयसहावाउ इयरंपित्ति' इतरदपि स्तनादानाभिलषणं भूतस्वभावात् द्रष्टव्यम् । तथाहि भूताना मेवैष स्वभावो यत्पूर्वमननुभूतमपि किञ्चित्स्वात्मन उपष्टम्भकारकमुपाददते ॥ ४२ ॥ तथा चाह
१ क्षुदपनोदकारी स्तने दृष्ट्वा संप्रति स्मरणविषयीकृतं इति इति कपुस्तके पाठः ।
For Private & Personal Use Only
66
संग्रहणिः.
॥ २६ ॥
www.jainelibrary.org