________________
ESCLOSCAREERASACAREER
चित्तो भूयसहावो एताओ चेव लाभहरणादी।
सिद्धत्ति णस्थि जीवो तम्हा परलोगगामी तु ॥४३॥ 'चित्रों' नानारूपोऽचिन्त्यविचित्रकार्यकारितया भूतानां स्वभावो, न च स्वभावे पर्यनुयोगोऽस्ति । तदाहुः|" अग्निदहति नाकाशं, कोऽत्र पर्यनुयुज्यत" इति । तस्मान्न स्तनादानाभिलापदर्शनादप्यात्मानुमानं युज्यत इति । तथा यदप्युच्यते-प्रतिनियतालब्धवित्तलाभलब्धवित्तापहारसुखदुःखादिवैचित्र्यस्य नियामकमन्तरेणानुपपद्यमानत्वात्पूर्वभवोपार्जितमदृष्टं किमपि तन्नियामकमभ्युपगन्तव्यं, तदभ्युपगमे च कर्तारमन्तरेण तस्यानुपपद्यमानत्वात् तत्कर्तुरात्मनः पूर्वभवेऽप्यस्तित्वं प्रतिपत्तव्यमिति, तदप्यतेन प्रत्युक्तमवसेयं, भूतानामेव तथाखभावत्वेनालब्धवित्तलाभादिवैचित्र्योपपत्तेः, यदाह-"जलबुद्दवजीवा" इति । यथैव हि सरित्समुद्रादौ नियामकादृष्टरहिता अपि खखभावसामर्थ्यवशाद्वैचित्र्यभाजो बुद्धदाः प्रादुष्पन्ति, तथा पूर्वभवोपार्जितमदृष्टमन्तरेणापि अलब्धवित्तलाभलब्धवित्तापहारादिवैचित्र्यभाजो जीवा अपि चैतन्यविशिष्टकायमात्ररूपा भविष्यन्तीति । तथा चाह–'एयाओ चेव लाभहरणाई। सिद्धत्ति' अत एव भूतखभाववैचित्र्यतो लाभहरणमादिश
१ तदाहेति खपुस्तके ।
Jain Education Intem
For Private & Personel Use Only
Ww.jainelibrary.org